SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [त्रिमयम् ] त्रयो गुणा अस्योदश्वितः क्रेयभूतस्य = त्रिमयम् । अनेन मयट्प्र० → मय । सि-अम् । [चतुर्मयम् ] चत्वारो गुणा अस्योदश्वित: क्रेयभूतस्य = चतुर्मयम् । अनेन मयट्प्र० → मय । सि-अम् । द्वौ गुणाविति क्रेयं मूल्यं चैकगुणं कृत्वा तदपेक्षया मूल्यक्रेययोढिस्तावत्तोच्यते ॥छ।। अधिकं तत्संख्यमस्मिन् शत-सहने शति-शद्-दशान्ताया डः ॥ ७।१।१५४ ॥ [अधिकम् ] अधि । अधि आरूढोऽधिकम् । 'अधेरारूढे' (७।१।१८७) कप्र० । सि-अम् । [ तत्संख्यम् ] सा संख्या यस्य = तत्संख्यम् । 'क्लीबे' (२।४।९७) हुस्वत्वम् । सि-अम् । [अस्मिन् ] अस्मिन् सप्तमी ङि । सूत्रत्वात् । [शतसहस्त्रे ] शतं च सहस्रं च = शतसहस्रम्, तस्मिन् । [शतिशद्दशान्तायाः] शतिश्च शच्च दशा च = शतिशद्दशानः । शतिशद्दशानः अन्ते यस्याः सा = शतिशद्दशान्ता, तस्याः = शतिशद्दशान्तायाः । पञ्चमी ङसि । [डः] ड प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । संख्याया इति वर्तते-तदिति च । सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः ।। [विशं योजनशतम्, विशं शतं योजनानि] विंशति मण्ड्यते । योजनानां संख्यानेत्युत्पत्तिः - विंशतिर्योजनानि संख्येयेत्युत्पत्तिः वा । विंशतिरधिकास्मिन् योजनशते शते वा योजनेषु = विशं योजनशतम्, विशं शतं योजनानि । अनेन . डप्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । [विशं योजनसहस्त्रम्, विशं सहस्त्रं योजनानि] योजनानां विंशतिर्योजनानि वा विंशतिरधिकास्मिन् योजनसहस्रे सहस्र वा योजनेषु = विशं योजनसहस्रम्, विशं सहस्रं योजनानि । अनेन डप्र० → अ । 'विंशतेस्तेर्डिति' (७४६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । __ [विशं कार्षापणशतम्, विशं शतं कार्षापणानि] कार्षापणानां विंशतिः कार्षापणानि वा विंशतिरधिकास्मिन् कार्षापणशते शते वा कार्षापणेषु = विशं कार्षापणशतम्, विशं शतं कार्षापणानि । अनेन डप्र० → अ। शेषं पूर्ववत् । [विंशं कार्षापणसहस्त्रम्, विशं सहस्त्रं कार्षापणानि] कार्षापणानां विंशतिः कार्षापणानि वा विंशतिरधिकास्मिन् : कार्षापणसहस्रे सहस्र वा कार्षापणेषु = विशं कार्षापणसहस्रम, विशं सहस्रं कार्षापणानि । अनेन डप्र० → अ । शेष पूर्ववत् । [एकविंशम् ] योजनानां एकविंशतिरधिकास्मिन् योजनशते = एकविंशम् । अनेन डप्र० → अ । शेषं पूर्ववत् । [द्वाविंशं शतम् ] योजनानां द्वाविंशतिरधिकास्मिन् योजनशते = द्वाविंशं शतम् । अनेन डप्र० → अ । शेषं पूर्ववत् । शत् - [त्रिंशं शतम् ] योजनानां त्रिंशत् अधिकास्मिन् योजनशते = त्रिंशं शतम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अत्लुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy