SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [उभयो मणिः, उभये देवमनुष्याः, उभयी दृष्टिः] उभ 'यांक प्रापणे' (१०६२) या । उभौ यातीति । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । यद्वा 'उभ पूरणे' (१३८५) उभ् । उम्भतीति उभयी दृष्टिः । 'गय-हृदयादयः' (उणा० ३७०) इति अयट् प्रत्ययान्तो निपात्यते । टित्त्वात्'अणजेयेकण्०' (२।४।२०) ङी । द्वितीय उभयशब्दस्याग्रे जस् । 'जस इ:' (१।४।९) इत्यनेन सूत्रेण जस्स्थाने इ । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । देवाश्च मनुष्याश्च = देवमनुष्याः । उभयशब्दः सर्वादिषु उभयट् इति पठ्यमानः शब्दान्तरमेव विज्ञेयम् । तेन जस्स्थाने 'नेमा-ऽर्द्ध०' (१।४।१०) जस इकारविकल्पो न भवति ॥छ।। द्वयादेर्गुणान्मूल्य-क्रेये मयट् ॥ ७।१।१५३ ॥ [द्यादेः] द्विरादिर्यस्य सः = व्यादिः, तस्मात् । [गुणात् ] गुण पञ्चमी ङसि । [मूल्यक्रेये] मूल्यं च क्रेयश्च = मूल्यक्रेयम्, तस्मिन् । [मयट] मयट प्रथमा सि । संख्याया इति वर्तते । [द्विमयमुदश्विद्यवानाम् ] यवानां द्वौ गुणौ मूल्यमस्योदश्वितः क्रेयस्य = द्विमयमुदश्विद्यवानाम् । द्विशब्दस्याऽग्रे अनेन मयट्प्र० → मय । द्वौ भागौ यवानामेको भाग उदश्वितः, द्विगुणा यवा इत्यर्थः । [त्रिमयम् ] त्रि । त्रयो गुणा मूल्यमस्योदश्वितः क्रेयस्य = त्रिमयम् । अनेन मयट्प्र० → मय । [चतुर्मयम् ] चत्वारो गुणा मूल्यमस्योदश्वित: क्रेयस्य = चतुर्मयम् । अनेन मयट्प्र० → मय । [द्विमया यवा उदश्वितः ] उदश्वितो द्वौ गुणौ क्रेयावेषां यवानां = द्विमया यवा उदश्वितः । अनेन मयट्प्र० → मय । जस् । [त्रिमयाः] त्रयो गुणाः क्रेया एषां यवानां = त्रिमयाः । अनेन मयट्प्र० → मय । जस् । [चतुर्मयाः ] चत्वारो गुणा: क्रेया एषां यवानां = चतुर्मयाः । अनेन मयट्प्र० → मय । जस् । इह तु (द्वि)गुणत्वं उदश्वितः, एको भागो यवानां, द्वौ गुणौ इत्युक्ते हि यवादीनामित्यपेक्ष्यते । व्यादिपदस्य सापेक्षस्यापि नित्यसापेक्षत्वेन गमकत्वाद्वृत्तिः ।। अपरः प्रकारः । मूल्यक्रेय इति प्रत्ययार्थविशेषणम् । पूर्वं हि प्रकृतिविशेषणत्वेन व्याख्या । [द्विमया यवा उदश्वितो मूल्यम् ] द्वौ गुणौ एषां मूल्यभूतानां यवानामुदश्वितः = द्विमया यवा उदश्वितो मूल्यम् । अनेन मयट्प्र० → मय । जस् । [त्रिमयाः ] त्रयो गुणा एषां मूल्यभूतानां यवानामुदश्वितः = त्रिमयाः । अनेन मयट्प्र० → मय । जस् । [चतुर्मयाः ] चत्वारो गुणा एषां मूल्यभूतानां यवानामुदश्वितः = चतुर्मयाः । अनेन मयट्प्र० → मय । जस् । [द्विमयमुदश्विद्यवानां क्रेयम् ] द्वौ गुणावस्योदश्वितः क्रेयभूतस्य = द्विमयमुदश्विद्यवानां क्रेयम् । अनेन मयट्प्र० → मय । सि-अम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy