SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [चतुष्टयी शब्दानां प्रवृत्तिः] चतुर् । चत्वारोऽवयवा अस्याः = चतुष्टयी शब्दानां प्रवृत्तिः । अनेन तयट्प्र० → तय । 'हुस्वान्नाम्नस्ति' (२।३।३४) र० → षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवौँ' (१।३।६०) त० → ट० । 'अणजेयेकण्' (२।४।२०) ङी । [चतुष्टयी रज्जुः] चतुर् । चत्वारोऽवयवा अस्याः = चतुष्टयी रज्जुः । अनेन तयट्प्र० → तय । 'हुस्वान्नाम्नस्ति' (२।३।३४) र० → षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अणजेयेकण्०' (२।४।२०) ङी । [पञ्चतयो यमः] पञ्च अवयवा अस्य = पञ्चतयो यमः । अनेन तवटप्र० → तय । प्राणातिपात - मृषावाद - अदत्तादान - मैथुन - परिग्रहभेदो यमः । [सप्ततयी नयप्रवृत्तिः] सप्त अवयवा अस्य = सप्ततयी नयप्रवृत्तिः । अनेन तयट्प्र० → तय । 'अणजेयेकण्०' (२।४।२०) ङी। [दशतयो धर्मः] दश अवयवा अस्य = दशतयो धर्मः । अनेन तयट्प्र० → तय । [द्वादशतयः सिद्धान्तः] द्वादश अवयवा अस्य = द्वादशतयः सिद्धान्तः । अनेन तयट्प्र० → तय ॥छ।। द्वि-त्रिभ्यामयट् वा ॥ ७।१।१५२ ॥ [द्वित्रिभ्याम् ] द्विश्च त्रिश्च = द्वित्री, ताभ्याम् । [अयट्] अयट् प्रथमा सि । [वा] वा प्रथमा सि । [द्वयम्, द्वितयं तपः] द्वावयवावस्य = द्वयम्, द्वितयं तपः । अनेन अयट्प्र० → अय । 'अवयवात् तयट्' • ' (७।१।१५१) तयट्प्र० → तय । [त्रयम्, त्रितयं जगत् ] त्रयोऽवयवा अस्य = त्रयम्, त्रितयं जगत् । अनेन अयट्प्र० → अय । 'अवयवात् तयट्' (७।१।१५१) तयट्प्र० → तय । [त्रयः, त्रितयो मोक्षमार्गः] त्रि । त्रयोऽवयवा अस्य = त्रयः, त्रितयो मोक्षमार्गः । ज्ञानदर्शनचारित्राणि । अनेन अयट्प्र० → अय । 'अवयवात् तयट्' (७।१।१५१) तयट्प्र० → तय । _[द्वयी, द्वितयी रज्जुः] द्वावयवावस्या: = द्वयी, द्वितयी । अनेन अयट्प्र० → अय । 'अवयवात् तयट्' (७।१।१५१). तयट्प्र० → तय । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [त्रयी, त्रितयी रज्जुः] त्रयोऽवयवा अस्याः = त्रयी, त्रितयी । अनेन अयट्प्र० → अय । 'अवयवात् तयट्' (७।१।१५१) तयट्प्र० → तय । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [त्रयाणि पानानि यथातथा पिबेत् ] त्रयोऽवयवा एषां = त्रयाणि । अनेन अयट्प्र० , अय । 'त्रन्त्य०' (७४|४३) (अवर्णे० (७४/६८)) इलुक् । जस् । पयश्च दिव्यं शुचि मेघसंभवं, स्वतिप्रसन्नां परमां च वारुणीं । ममातुलं वारि च वक्त्रसंभवं, त्रयाणि पानानि यथातथा पिबेत् ॥ द्वित्रिभ्यामेव अयट् उक्तस्तत्कथमुभयो मणिरित्यादि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy