SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [यावन्ति, तावन्ति, एतावन्ति अधिकरणानि] या-सा-एषा वा संख्या मानमेषां = यावन्ति, तावन्ति, एतावन्ति अधिकरणानि । अनेन अतुप्र० → अत्-डावादिः । 'डित्यन्त्यस्वरादेः' (२१२११४) अन्त्यस्वरादिलोपः । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । नोऽन्तः । [यावती, तावती, एतावती] यत्-तद्-एतत्प्रमाणमस्याः सा = यावती, तावती, एतावती । अनेन अतुप्र० → अत्-डावादिः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । 'अधातूदृदितः' (२।४।२) ङी । ननु मात्रडादयोऽपि दृश्यन्ते [इदंमात्रम् ] इदं प्रमाणमस्य = इदंमात्रम् । इत्यादि, सत्यम्, स्वविषये मानविशेषे प्रमाणे मात्रडादयो भवन्त्येव, मानसामान्येऽतुरेवेति विभागः ॥छ।। यत्-तत्-किमः संख्याया डतिर्वा ॥ ७।१।१५० ॥ [यत्तत्किमः ] यच्च तच्च किञ्च = यत्तत्किम, तस्मात् । [संख्यायाः ] संख्या पञ्चमी ङसि । [डतिः] डति प्रथमा सि । [वा] वा प्रथमा सि । [यति ] यद् । या संख्या मानमेषां = यति । अनेन डतिप्र० → अति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । जस् । 'डति-ष्णः संख्याया लुप्' (१।४४) लुप् । [यावन्तः] यत्परिमाणमेषां = यावन्तः । 'यत्-तदेतदो डावादिः' (७।१।१४९) अतुप्र० → अत् - डावादिः ।। 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । जस् । 'ऋदुदितः' (१।४/७०) नोऽन्तः । [तति ] तद् । सा संख्या मानमेषां = तति । अनेन डतिप्र० → अति । “डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । जस् । 'डति-ष्ण:०' (१।४५४) लुप् । । [तावन्तः ] तत्परिमाणमेषां = तावन्तः । 'यत्-तदेतदो डावादिः' (७।१।१४९) अतुप्र० → अत् - डावादिः । 'डित्यन्त्यस्वरादेः' (२।१२११४) अद्लुक् । जस् । 'ऋदुदितः' (१।४।७०) नोऽन्तः । एवमग्रेऽपि । . [कति] का संख्या मानमेषां = कति । पूर्ववत् साध्यः । [कियन्तः] किं परिमाणमेषां = कियन्तः । पूर्ववत् साध्यः । एतौ च अतुडतिप्रत्ययौ स्वभावाद् बहुवचनविषयावेव भवतः । [कियान्, यावान्, तावान् पटः] किं मानमस्य = कियान् । 'इदं-किमोऽतुरिय-किय् चास्य' (७।१।१४८) अतुप्र० → अत् - किय्देशश्च । यावान्, तावान् पटः । शेषं पूर्ववत् ॥छ।। अवयवात् तयट् ॥ ७।१।१५१ ॥ [अवयवात्] अवयव पञ्चमी ङसि । [तयट्] तयट प्रथमा सि । तदस्येति संख्याया इति च वर्त्तते, मानादिति निवृत्तम्, अवयवादिति विशेषणान्तरोपादानात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy