SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [अतुः] अतु प्रथमा सि । 'सो रुः' (२।१।७२) स० → २० । [इकिय] इय् च किय् च = इकिम् । [च] च प्रथमा सि । [अस्य] इदम् षष्ठी ङस् । तदस्य मानादिति वर्तते । चतुर्विधं मानम् । तत्र प्रमाणात् - [इयान् पटः ] इदं मानमस्य = इयान् पटः । अनेन अतुप्र० → अत्० - इदम्० → इय्देशश्च । [कियान् पट:] किं मानमस्य = कियान् पटः । अनेन अतुप्र० → अत्० - किम्० → किय्देशश्च । पटः । परिमाणात् - [इयद्धान्यम् ] इदं परिमाणमस्य = इयत् । अनेन अतुप्र० → अत्० - इदम् → इय्देशश्च । धान्यम् । [कियद्धान्यम् ] किं परिमाणमस्य = कियत् । अनेन अतुप्र० → अत्० - किम्० → किय्देशश्च । धान्यम् । उन्मानात् - [इयत्सुवर्णम् ] इदं मानमस्य = इयत् । अनेन अतुप्र० → अत्० - इदम् → इय्देशश्च । सुवर्णम् । [कियत्सुवर्णम् ] किं मानमस्य = कियत् । अनेन अतुप्र० → अत्० - किम्० → किय्देशश्च । सुवर्णम् । संख्याया: - [इयन्तो गुणिनः ] इदं मानमेषां = इयन्तः । अनेन अतुप्र० → अत्० - इदम्० → इय्देशश्च । जस् । गुणिनः । [कियन्तो गुणिनः ] किं मानमेषां = कियन्तः । अनेन अतुप्र० → अत्० - किम्० → किय्देशश्च । जस् । गुणिनः । [इयती ] इदं मानमस्याः = इयती । अनेन अतुप्र० → अत्० - इदम्० → इय्देशश्च । 'अधातूदृदितः' (२।४।२) ङी। [कियती ] किं परिमाणमस्या: = कियती । अनेन अतुप्र० → अत्० - किम्० → किय्देशश्च । 'अधातूदृदितः' (२।४।२) ङी। उदित्करणं दीर्घत्वाद्यर्थम्, आदिशब्दात् 'ऋदुदितः' (१।४।७०) नागमः । 'अधातूदृदितः' (२।४।२) इति ङीश्च गृह्यते ॥छ। यत्-तदेतदो डावादिः ॥ ७।१।१४९ ॥ [यत्तदेतदः] यच्च तच्च एतच्च = यत्तदेतत्, तस्मात् । . [डावादिः] डाव आदिर्यस्य सः = डावादिः । [यावान्, तावान्, एतावान् पटः] यत्-तद्-एतद्वा प्रमाणमस्य = यावान् तावान्, एतावान् पटः । अनेन अतुप्र० → अत्-डावादिः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक । [यावत्, तावत्, एतावत् धान्यम् ] यत्-तद्-एतद्वा परिमाणमस्य = यावत्, तावत्, एतावत् धान्यम् । अनेन अतुप्र० → अत् - डावादिः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । [यावत्, तावत्, एतावत् सुवर्णम् ] यत्-तद्-एतद्वा उन्मानमस्य = यावत्, तावत्, एतावत् सुवर्णम् । अनेन अतुप्र० → अत् - डावादिः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy