SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । मात्रदघ्नद्वयसानि नामान्यपि सन्ति, अनुबन्धासजनार्थं तु प्रत्ययविधानम्, तेन स्त्रियां विशेष: [वैश्वदेवमात्रा भिक्षा] विश्वे देवा देवता अस्य = वैश्वदेवः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । वैश्वदेवो मात्र मात्रा वाऽस्याः सा = वैश्वदेवमात्रा भिक्षा ॥छ। शन्-शद्-विंशतेः ॥ ७।१।१४६ ॥ [शन्शविंशतेः ] शन् च शच्च विंशतिश्च = शन्शविंशति, तस्मात् । [ दशमात्राः ] दशन् । दश मानमेषां स्यात् = दशमात्राः । अनेन मात्रटप्र० → मात्र । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । जस् । [पञ्चदशमात्राः ] पञ्चदश मानमेषां स्यात् = पञ्चदशमात्राः । अनेन मात्रटप्र० → मात्र । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । जस् । [त्रिंशन्मात्रा:] त्रिंशन्मानमेषां स्यात् = त्रिंशन्मात्राः । अनेन मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।११७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । जस् । [त्रयस्त्रिंशन्मात्राः] त्रि-त्रिंशत् मण्ड्यते । त्रिभिरधिका त्रिंशत् = त्रयस्त्रिंशत् । 'द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ' (३।२।९२) त्रि० → "त्रयस्"देशः । त्रयस्त्रिंशत् मानमेषां स्यात् = त्रयस्त्रिंशन्मात्राः । अनेन मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । जस् । [विंशतिमात्राः] विंशतिर्मानमेषां = विंशतिमात्राः । अनेन मात्रटप्र० → मात्र । जस् ॥छ।। डिन् ॥ ७।१।१४७ ॥ [डिन् ] डिन् प्रथमा सि । संशये इति निवृत्तम्, योगविभागात्, अन्यथा "शन्शद्विशतेर्डिन् वा" इत्येक एव योगः क्रियेत । , [पञ्चदशी अर्धमासः, पञ्चदशिनौ, पञ्चदशिनः] पञ्चदशाहोरात्राः परिमाणमस्य = पञ्चदशी अर्धमासः । । पञ्चदशाहोरात्राः परिमाणमनयोः = पञ्चदशिनौ । पञ्चदशाहोरात्राः परिमाणमेषां = पञ्चदशिनः । अनेन डिप्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्लुक् । सि-औ-जस् । [त्रिंशी, त्रिशिनौ, त्रिंशिनो मासाः] त्रिंशत् परिमाणमस्य = त्रिंशी । त्रिंशत् परिमाणमनयोः = त्रिशिनौ । त्रिंशत् परिमाणमेषां = त्रिशिनो मासाः । अनेन डिप्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । सि-औ-जस् । [त्रयस्त्रिशिनो देवविशेषाः] त्रयस्त्रिंशत् परिमाणमेषां = त्रयस्त्रिशिनो देवविशेषाः । अनेन डिनप्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । जस् । [विशिनो भवनेन्द्राः] विंशतिः परिमाणमेषां = विशिनो भवनेन्द्राः । अनेन डिन्प्र० → इन् । 'डित्यन्त्यस्वरादेः (२।१।११४) अतिलुक् । जस् ॥छ।। इदं-किमोऽतुरिय-किय् चास्य ॥ ७।१।१४८ ॥ [इदंकिमः ] इदं च किं च = इदंकिम्, तस्मात् । म० वृत्तौ-त्रिंशतोऽहोरात्राः परिमाणमस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy