SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [द्विकाण्डी रज्जुः] द्वे काण्डे प्रमाणमस्याः = द्विकाण्डी रज्जुः । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अनेन लुप् । 'काण्डात् प्रमाणादक्षेत्रे' (२।२।२४) ङी । 'अस्य ङयां लुक्' (२।४।८६) अलुक् । [द्विपुरुषी, द्विपुरुषा खाता] द्वौ पुरुषौ प्रमाणमस्याः सा = द्विपुरुषी, द्विपुरुषा खाता । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अथवा 'वोर्ध्वं दघ्नट-द्वयसट्' (७११४२) दघ्नट्-द्वयसप्र० । अनेन लुप् । 'पुरुषाद् वा' (२।४।२५) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । [द्विहस्तिनी ] द्वौ हस्तिनौ प्रमाणमस्याः सा = द्विहस्तिनी । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अनेन लुप् । 'स्त्रियां नृतोऽस्वस्रादेर्डी:' (२।४।१) ङी । [त्रिहस्तिनी ] त्रयो हस्तिनः प्रमाणमस्या: सा = त्रिहस्तिनी । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रट्प्र० । अनेन लुप् । 'स्त्रियां नृतो०' (२।४।१) ङी । [द्विप्रस्थः] द्वौ प्रस्थौ मानमस्य स्यात् = द्विप्रस्थः । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अनेन लुप् । [द्विपलम् ] द्वे पले मानमस्य, द्वे पले प्रमाणमस्य तत् = द्विपलम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अनेन लुप् । . [द्विशतः( तम्)] द्वे शते मानमस्य = द्विशतम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० । अनेन लुप् । मीयतेऽनेन = मानम्, प्रमाणम्, परिमाणम्, उन्मानम्, संख्या चेह गृह्यते । ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, संख्या बाह्या तु सर्वत: ॥१॥ ॥छ।। मात्रट् ॥ ७।१।१४५ ॥ [ मात्रट ] मात्रट प्रथमा सि । मानात् संशये इति च वर्तते । [प्रस्थमात्रं धान्यम्] प्रस्थो मानमस्य स्यात् = प्रस्थमात्र धान्यम् । अनेन मात्रटप्र० → मात्र । सि । [प्रस्थमात्रा व्रीहयः ] प्रस्थो मानमेषां स्यात् ते = प्रस्थमात्रा व्रीहयः । अनेन मात्रटप्र० → मात्र । जस् । [कुडवमात्रम् ] कुडवं मानमस्य स्यात् = कुडवमात्रम् । अनेन मात्रट्प्र० → मात्र । स्यात = पलमात्रम् । अनेन मात्रटप्र० → मात्र । [कर्षमात्रम् ] कर्षो मानमस्य स्यात् = कर्षमात्रम् । अनेन मात्रटप्र० → मात्र । [पञ्चमात्राः] पञ्च मानमेषां स्यात् = पञ्चमात्राः । अनेन मात्रटप्र० २ मात्र । 'माम्नो नोऽनहनः' (२।१।९१) नलुक् । जस् । [शतमात्राः] शतं मानमेषां स्यात् = शतमात्राः । अनेन मात्रटप्र० → मात्र । जस् । [शतमात्रम् ] शतं मानमस्य स्यात् = शतमात्रम् । अनेन मात्रटप्र० → मात्र । सि-अम् । [दिष्टिमात्रम् ] दिष्टिर्मानमस्य स्यात् = दिष्टिमात्रम् । अनेन मात्रट्प्र० → मात्र । सि-अम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy