SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अशातकर्तृकायां बुण्डिकायां । प्रमाणादिति वर्त्तते । मानवाच्येव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिः प्रसिद्धो न तु रज्ज्वादिर्यो लक्षणया प्रमाणे वर्त्तते । ६४ [ हस्तः ] हस्तः प्रमाणमस्य = हस्तविशेषः । ‘प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० मात्र । अनेन लुप् । [वितस्ति: ] 'तसू उपक्षये' (१२२४) तस्, विपूर्व० । वितस्यत्यनया । 'प्लु-ज्ञा- यजि - षपि - पदि - वसिवितसिभ्यस्तिः' (उणा० ६४६ ) तिप्र० । वितस्ति: प्रमाणमस्य = वितस्ति: । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । अनेन लुप् । [विष्टिः ] दिष्टि प्रमाणमस्य = दिष्टि । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । अनेन लुप् । [शममात्रम् ] शमचतुर्विंशतिरङ्गुलानि । शमः प्रमाणमस्य स्यात् = शममात्रम् । 'प्रमाणान्मात्र (७|१|१४०) मात्रट्प्र० मात्र । [प्रस्थः, प्रस्थमात्रो वा व्रीहिः ] प्रस्थः प्रमाणमस्य = प्रस्थः, प्रस्थमात्रो वा व्रीहिः । ' प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । मतान्तरे अनेनैव लुप् । [ हस्तः, हस्तमात्रं वा काष्ठम् ] हस्तः प्रमाणमस्य = हस्तः, हस्तमात्रं वा काष्ठम् । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । मतान्तरे अनेनैव लुप् । । [ पलं, पलमात्रं वा सुवर्णम् ] पलः प्रमाणमस्य तत् = पलं, पलमात्रं वा सुवर्णम् । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । मतान्तरे अनेनैव लुप् । [ शतं शतमात्रा वा गाव: ] शतं मानमेषां मतान्तरे अनेनैव लुप् । गोशब्दोऽत्र पुल्लिङ्गः ॥ छा = शतं शतमात्रा वा गाव: । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । [द्विगो: ] द्विगु पञ्चमी इसि । [ संशये ] संशय सप्तमी ङि । [च] च प्रथमा सि । मानादिति वर्त्तते । प्रमाणादिति निवृत्तम् । [द्विशमः ] द्वौ शमी प्रमाणमस्य द्वौ शमौ प्रमाणमस्य स्यात् वा द्विशम: । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । अनेन लुप् । - Jain Education International द्विगोः संशये च ॥ ७।१।१४४ ॥ [द्विदिष्टिः] द्वि 'दिशत् अतिसर्जने' (१३१८) दिश् । दिश्यतेऽनया इति दिष्टिः । 'वादिभ्यः' (५।३।९२) क्तिप्र० → ति 'यज-सृज मृजराज०' (२०११८७) श० ष० तवर्गस्य चवर्ग एवर्गाभ्यां०' (१२३२६०) त० त० द्वे दिष्टी प्रमाणमस्य = द्विदिष्टि: । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । अनेन लुप् । [ द्विवितस्ति: ] द्वे वितस्ती प्रमाणमस्य = द्विवितस्तिः । ‘प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । अनेन लुप् । द्विकाण्डा क्षेत्रभक्तिः । ' प्रमाणान्मात्रट्' (७|१|१४०) [ द्विकाण्डा क्षेत्रभक्तिः ] द्वे काण्डे प्रमाणमस्या: मात्रट्प्र० । अनेन लुप् । 'आत्' (२|४|१८) आपूप्र० = आ । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy