SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ पुरुषमात्री । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० → मात्र । एवम्-पुरुषदघ्नी, पुरुषद्वयसम् । 'वोर्ध्वं दघ्नट-द्वयसट्' (७।१।१४२) दघ्नटप्र० → दघ्न-द्वयसटप्र० → द्वयस । 'अणजेयेकण्०' (२।४।२०) ङी । खाता । [पौरुषी, पुरुषमात्री छाया] पुरुषः प्रमाणमस्याः सा । यद्वा पुरुषस्य प्रमाणा = पौरुषी, पुरुषमात्री । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः औ । मात्रट्प्र० → मात्र । 'अणजेयेकण्०' (२।४।२०) ङी । छाया । तिर्यग्माने अत एव दघ्नट्-द्वयसट्प्रत्ययौ न भवतः ॥छा। वोर्ध्वं दजट द्वयसट् ॥ ७।१।१४२ ॥ [वा] वा प्रथमा सि । [ ऊर्ध्वम् ] ऊर्ध्वंम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [दनवयसट् ] दघ्नट् च द्वयसट् च = दघ्नवयसट् । प्रथमा सि । [ऊरुदनम्, ऊरुद्वयसम्, ऊरुमात्रमुदकम् ] ऊरु । ऊरुः प्रमाणमस्य = ऊरुदघ्नम्, ऊरुद्वयसम् । अनेन दघ्नटप्र० → दन-द्वयसटप्र० → द्वयस । एवम्-ऊरुमात्रम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० → मात्र । उदकम् । [ऊरुदनी, ऊरुद्वयसी, ऊरुमात्री खाता] ऊरुः प्रमाणमस्याः सा = ऊरुदघ्नी, ऊरुद्वयसी । अनेन दघ्नटप्र० → दघ्न-द्वयसट्प्र० → द्वयस । एवम्-ऊरुमात्री । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० → मात्र । 'अणजेयेकण्०' (२।४।२०) ङी । खाता । [तद्दनी, तद्वयसी, तन्मात्री ] तत्प्रमाणमस्याः सा = तद्दनी, तद्वयसी । अनेन दघ्नट्प्र० → दघ्न-द्वयसप्र० → द्वयस । 'अणजेयेकण्०' (२।४।२०) ङी । [तावद्दघ्नी, तावद्वयसी, तावन्मात्री ] तावत्प्रमाणमस्याः सा = तावद्दघ्नी, तावद्द्वयसी । अनेन दघ्नटप्र० → दघ्न-द्वयसप्र० → द्वयस । 'अणजेयेकण्०' (२।४।२०) ङी । वाग्रहणमण-मात्रटोरबाधनार्थम्, तेन[पुरुषदघ्नम्, पुरुषद्वयसम्, पुरुषमात्रम्, पौरुषम् ] पुरुषस्य प्रमाणं = पुरुषदघ्नम्, पुरुषद्वयसम् । अनेन दघ्नटप्र० द्वयसटप्र० द्वयस । एवम्-पुरुषमात्रम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० , मात्र । एवम्-पौरुषम् । 'हस्ति-पुरुषाद् वाऽण्' (७।१।१४१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । __[रज्जुमात्री भूमिः ] रज्जुः प्रमाणमस्या: सा = रज्जुमात्री भूमिः । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रट्प्र० → मात्र । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।। मानादसंशये लुप् ॥ ७।१।१४३ ॥ [मानात्] मान पञ्चमी ङसि । [असंशये] असंशय सप्तमी ङि। [लुप्] लुप् प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy