SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । । तदस्येति वर्तते । आयाममानं प्रमाणम्, तद् द्विविधम्, ऊर्ध्वमानं तिर्यग्मानं च । ऊर्ध्वमानात्- जानुमात्रमुदकम् ] जानु प्रमाणमस्य = जानुमात्रमुदकम् । अनेन मात्रटप्र० → मात्र । [जानुमात्री खाता] जानुनी प्रमाणमस्याः सा = जानुमात्री खाता । अनेन मात्रटप्र० → मात्र । 'अणजेयेकण-नञ्स्नञ्-टिताम्' (२।४।२०) ङी । [ऊरुमात्रमुदकम् ] ऊरु मण्ड्यते । ऊरु प्रमाणमस्य = ऊरुमात्रमुदकम् । अनेन मात्रटप्र० → मात्र । [ऊरुमात्री खाता] ऊरु प्रमाणमस्या: सा = ऊरुमात्री खाता । अनेन मात्रटप्र० → मात्र । 'अणजेयेकण्०' (२।४।२०) ङी। तिर्यग्मानात्- रज्जुमात्री भूमिः] रज्जुः प्रमाणमस्याः सा = रज्जुमात्री भूमिः । अनेन मात्रटप्र० → मात्र । 'अणजेयेकण्' (२।४।२०) ङी । [तन्मात्री] तद् । तत्प्रमाणमस्याः सा = तन्मात्री । अनेन मात्रटप्र० → मात्र । 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) ङी। [तावन्मात्री] तावत्प्रमाणमस्याः सा = तावन्मात्री । अनेन मात्रटप्र० → मात्र । 'अणजेयेकण्o' (२।४।२०) ङी ॥छ। हस्ति-पुरुषाद् वाऽण् ॥ ७।१।१४१ ॥ [ हस्तिपुरुषात् ] हस्ती च पुरुषश्च = हस्तिपुरुषम्, तस्मात् । [वा] वा प्रथमा सि । [अण्] अण् प्रथमा सि । [हास्तिनम्, हस्तिमात्रम्, हस्तिदनम्, हस्तिद्वयसमुदकम् ] हस्ती प्रमाणमस्य = हास्तिनम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अनपत्ये' (७।४।४५) इत्यनेन अन्त्यलोपाभावः । एवम्हस्तिमात्रम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० → मात्र । एवम्-हस्तिदघ्नम्, हस्तिद्वयसमुदकम् । 'वोर्ध्वं दघ्नटद्वयसट्' (७।१।१४२) दघ्नटप्र० → दन-द्वयसटप्र० → द्वयस । ' [हास्तिनी, हस्तिमात्री, हस्तिदनी, हस्तिद्वयसी खाता] हस्ती प्रमाणमस्याः सा = हास्तिनी । अनेन अणप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । एवम्-हस्तिमात्री । 'प्रमाणान्मात्रट' (७१।१४०) मात्रटप्र० → मात्र । एवम्हस्तिदघ्नी, हस्तिद्वयसी खाता । 'वोज़ दघ्नट्-द्वयसट्' (७।१।१४२) दघ्नट्प्र० → दन-द्वयसप्र० → द्वयस । 'अणजेयेकण्' (२।४।२०) ङी । [पौरुषम्, पुरुषमात्रम्, पुरुषदघ्नम्, पुरुषद्वयसमुदकम् ] पुरुषः प्रमाणमस्य । यद्वा पुरुषस्य प्रमाणं = पौरुषम् । अनेन अणप्र० → अ । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्पुरुषमात्रम् । 'प्रमाणान्मात्रट्' (७।१।१४०) मात्रटप्र० → मात्र । एवम्-पुरुषदघ्नम्, पुरुषद्वयसम् । 'वोर्ध्वं०' (७१।१४२) दघ्नटप्र० → दन-द्वयसटप्र० → द्वयस । उदकम् ।। [पौरुषी, पुरुषमात्री, पुरुषदघ्नी, पुरुषद्वयसी खाता] पुरुषः प्रमाणमस्याः सा = पौरुषी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । एवम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy