SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ एरण्डतैलम् ] एरण्डानां स्नेहो विकारः = एरण्डतैलम् । अनेन तैलप्र० । विकारप्रत्ययापवादः ॥छ।। तत्र घटते कर्मणष्ठः ॥ ७१।१३७ ॥ [तत्र ] तत्र पञ्चमी ङसि । 'अव्ययस्य' (३।२७) ङसिलुप् । [घटते ] घटते सप्तमी ङि । सूत्रत्वात् (लोपः) । [कर्मणष्ठः ] कर्मन् पञ्चमी ङसि । ठ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'च-ट-ते०' (१।३७) र० → ष० । [कर्मठः ] कर्मन् । कर्मणि घटते = कर्मठः । अनेन ठप्र० । तदस्य सञ्जातं तारकादिभ्य इतः ॥ ७।१।१३८ ॥ [तद् ] तद् प्रथमा सि । 'अनतो लुप्' (१।४५९) लुप् । [अस्य ] इदम् षष्ठी ङस् । [सञ्जातम्] सञ्जात सि-अम् । [तारकादिभ्यः ] तारका आदिर्येषां ते = तारकादयः, तेभ्यः = तारकादिभ्यः । पञ्चमी भ्यस् । [इतः] इत प्रथमा सि । [तारकितं नभः] तारकाः सञ्जाता अस्य = तारकितं नभः । अनेन इतप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [पुष्पितस्तरुः] पुष्पाणि सञ्जातान्यस्य = पुष्पितस्तरुः । अनेन इतप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [ऋजीष ] ऋजीषो अवस्करमुच्यते । [ आराल] आरालो मूत्रं पुरीषयोः संज्ञा ॥छ।। गर्भादप्राणिनि ॥ ७।१।१३९ ॥ [गर्भात् ] गर्भ पञ्चमी ङसि । [अप्राणिनि] न प्राणी = अप्राणी । 'नजत्' (३।२।१२५) न० → अ०, तस्मिन् । [गर्भितो व्रीहिः ] गर्भः सजातोऽस्य = गर्भितो व्रीहिः । अनेन इतप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [गर्भिताः शालयः] गर्भः सजात एषां ते = गर्भिताः शालयः । अनेन इतप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रमाणान्मात्रट् ॥ ७१।१४०॥ [प्रमाणात्] प्रमाण पञ्चमी ङसि । [ मात्रट ] मात्रट प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy