________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[लौहितीकः, लौहितिकः] लोहितस्य तुल्यः = लौहितीकः, लौहितिकः । अनेन टीकण्प्र० → ईक - इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । स्फटिकादिः । अलोहितवर्णोऽप्युपाश्रयवशाधस्तथावभासते स एवमुच्यते । टकारो झ्यर्थः ॥छ।
वेविस्तृते शाल-शङ्कटौ ॥ ७।१।१२३ ॥ [वेः] वि पञ्चमी ङसि ।। [विस्तृते] विस्तृत सप्तमी ङि । [शालशङ्कटौ] शालश्च शङ्कटश्च = शालशङ्कटौ ।
[विशालः, विशङ्कटः] वि-विस्तृतः = विशालः, विशङ्कटः । अनेन शाल-शङ्कटप्र० । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । विस्तृत इत्यर्थः ॥छ।।
कटः ॥७।१।१२४ ॥ . [कटः ] कट प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [विकटः] वि-विस्तृतः = विकटः । अनेन कटप्र० ॥छ।।
सं-प्रोन्नेः सङ्कीर्ण-प्रकाशा-ऽधिक-समीपे ॥ ७१।१२५ ॥ [संप्रोन्नेः ] सम च प्रश्च उच्च निश्च = संप्रोन्नि. तस्मात । [सङ्कीणप्रकाशाऽधिकसमीपे] सङ्कीर्णश्च प्रकाशश्च अधिकश्च समीपश्च = सङ्कीणप्रकाशाऽधिकसमीपम्, तस्मिन् । सङ्कीर्णः - [सङ्कटः] सम्शब्दात् अनेन कटप्र० । . प्रकाशः - [प्रकटः] प्रशब्दात् अनेन कटप्र० । अधिकः - [ उत्कटः ] उत्शब्दात् अनेन कटप्र० । समीप: - [निकटम् ] नि मण्ड्यते । नितरां समीपम् । निशब्दात् अनेन कटप्र० । पुं-नपुंसकोऽयं शब्दः ॥छ।।
अवात् कुटारश्चाऽवनते ॥ ७।१।१२६ ॥ [अवात्] अव पञ्चमी ङसि ।। [कुटारः] कुटार प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [च] च प्रथमा सि । [अवनते] अवनत सप्तमी ङि । [अवकुटारः, अवकटः ] अवशब्दात् कुटार-कटप्र० ॥छ।।
नासानति-तद्वतोष्टीट-नाट-भ्रटम् ॥ ७।१।१२७ ॥ [नासानतितद्वतोः] तद्-सा = नासानतिरस्यास्ति = तद्वान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१२९४) म० → व० । नासानतिश्च तद्वांश्च = नासानतितद्वन्तौ, तयोः = नासानतितद्वतोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org