SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [शार्करं दधि, शार्करी मृत्तिका] शर्करायास्तुल्यं = शार्करं दधि मधुरत्वात् । अनेन अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । एवम्-शार्करा(री) मृद्वि(त्ति)का । 'अणजेयेकण-न-स्न-टिताम्' (२।४।२०) ङी । कठिनत्वात् ॥छ।। अः सपल्याः ॥ ७१।११९ ॥ [अ] अ प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [सपल्याः] सपत्नी पञ्चमी ङसि । [ सपत्नः] सपत्न्यास्तुल्यः = सपत्नः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।। एकशालाया इकः ॥ ७।१।१२० ॥ [एकशालायाः] एकशाला पञ्चमी ङसि ।। [इकः] इक प्रथमा सि । [एकशालिकम्] एका चासौ शाला च = एकशाला । एकशालायास्तुल्यमेकशालिकम् । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ॥छ।। गोण्यादेश्चेकण् ॥ ७।१।१२१ ॥ [गोण्यादेश्च ] गोणी आदिर्यस्य सः = गोण्यादिः, तस्मात् । च प्रथमा सि । [इकण्] इकण् प्रथमा सि ।। [गौणिकम् ] गोण्यास्तुल्यं = गौणिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । [आगुलिकम् ] अङ्गुलेरङ्गुल्या वा तुल्यमाङ्गुलिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । [ऐकशालिकम् ] एकशालायास्तुल्यमैकशालिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । गणोऽत्र ॥छ। कर्क-लोहिताट्टीकण च ॥ ७।१।१२२ ॥ [कर्कलोहितात् ] कर्कश्च लोहितश्च = कर्कलोहितम्, तस्मात् । [टीकण्] टीकण् प्रथमा सि । [च] च प्रथमा सि । [कार्कीकः, कार्किकः] शुक्लोऽश्वः कर्कः, तस्य तुल्यः = कार्कीकः । अनेन टीकणप्र० + ईक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-कार्किकः । अनेनैव इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy