SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ नृपूजार्थध्वजचित्रे ] ना च पूजार्थश्च ध्वजश्च चित्रं च = नृपूजार्थध्वजचित्रम्, तस्मिन् । नृ - [चञ्चा] चञ्चा तृणमयः पुरुषः । य: क्षेत्ररक्षणाय क्रियते । चञ्चातुल्यः पुरुषः = चञ्चा । [वधिका] कुत्सिता-ऽल्पा-ऽज्ञाता वा वर्धी = वधिका । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । वधिकावत् जुगुप्स्यः पुरुषोऽपि वधिका । पूजार्थः - [अर्हन् ] अर्हन् इव = अर्हन् । [शिवः ] शिव इव = शिवः । [स्कन्दः ] स्कन्द इव = स्कन्दः । ध्वज - [गरुड़:] गरुड इव = गरुडः । [सिंहः] सिंह इव = सिंहः । [ दुर्योधनः ] दुर्योधन इव = दुर्योधनः । [भीमसेनः] भीमसेन इव = भीमसेनः । सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। अपण्ये जीवने ॥ ७१।११० ॥ [अपण्ये ] 'पणि व्यवहार-स्तुत्योः' (७१०) पण् । पणाय्यत इति पण्यम् । 'वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमतीगर्थ्य-विक्रेये' (५।१।३२) यप्र० । न पण्यम् = अपण्यम्, तस्मिन् । [जीवने ] जीव्यते येन तज्जीवनम्, तस्मिन् । [वासुदेवः ] वासुदेवसदृशः = वासुदेवः । [शिवः ] शिवसदृशः = शिवः । [स्कन्दः ] स्कन्दसदृशः = स्कन्दः । [विष्णुः] विष्णुसदृशः = विष्णुः । [ देवलकाः 1 देव 'लांक आदाने' (१०६८) ला । देवान् लान्ति । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । देवला एव = देवलकाः । देवा(व)लकानां जीविकार्थाः प्रतिकतय उच्यन्ते। [हस्तिकान् विक्रीणीते ] हस्तिनः प्रतिकृतयः = हस्तिकाः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७।१।१०८) कप्र०, तान् । [ हस्तिकः ] हस्तिनस्तुल्यः = हस्तिकः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७।१।१०८) कप्र० ॥छ।। देवपथादिभ्यः ॥ ७।१।१११ ॥ [देवपथादिभ्यः] देवपथ आदिर्येषां ते = देवपथादयः, तेभ्यः = देवपथादिभ्यः । पञ्चमी भ्यस् । [ देवपथः ] देव-पथिन् । देवस्य पन्थाः = देवपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक । देवपथस्य तुल्यः = देवपथः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy