________________
५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सम्य, समीचीनः] समञ्चतीति सम्यङ् । क्विप्र० । 'अञ्चोऽन०' (४।२।४६) नलुक् । 'सह-समः सध्रिसमि' (३।२।१२३) समिदेशः - पुल्लिङ्गे इदम् । सम्यङेव = समीचीनम्(नः) । अनेन ईनप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) दीर्घः ।
[प्राची दिक् ] प्राञ्चतीति प्राची । क्विप्प्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'अञ्चः' (२।४।३) ङी । [उदीची दिक् ] उदञ्चतीति क्विप्र० । 'अञ्चोऽनईयाम्' (४।२।४६) नलुक् । 'अञ्चः' (२।४।३) ङी।
[प्राचीना शाखा] प्राची मण्ड्यते । प्राच्येव = प्राचीना । अनेन ईनप्र० । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः ।
[अवाचीना ब्राह्मणी] अवाञ्चतीति अवाङ् । क्विप्प्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'अञ्चः' (२।४।३) ङी । अवाच्येव = अवाचीना । अनेन ईनप्र० । 'जातिश्च णि०' (३।२।५१) पुंवद्भावः ।
[प्राक् प्राचीनं रमणीयम् ] प्राची मण्ड्यते । प्राच्यां दिशि । 'दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा-पञ्चमीसप्तम्याः' (७२।११३) धाप्र० । 'लुबञ्चेः' (७।२।१२३) लुप् । 'ङ्यादेhण०' (२।४।९५) डीनिवृत्तिः । प्रागेव = प्राचीनं रमणीयम् । अनेन ईनप्र० । दिश्यपि लुबन्तं स्वभावात् नपुंसकम् ॥छ।।
तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ॥ ७।१।१०८ ॥ [तस्य ] तद् षष्ठी ङस् अथवा तस्य चतुर्थी ङे (पञ्चमी ङसि) । सूत्रत्वात् (लोपः) । [ तुल्ये] तुल्य सप्तमी ङि । [कः ] क प्रथमा सि । [संज्ञाप्रतिकृत्योः ] संज्ञा च प्रतिकृतिश्च = संज्ञाप्रतिकृती, तयोः = संज्ञाप्रतिकृत्योः । सप्तमी ओस् । प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम् । [अश्वकः ] अश्वस्य तुल्यः = अश्वकः । अनेन कप्र० । [ उष्ट्रकः ] उष्ट्रस्य तुल्य: = उष्ट्रकः । अनेन कप्र० । [गर्दभकः] गर्दभस्य तुल्यः = गर्दभकः । अनेन कप्र० । अश्वादिसदृशस्य प्राणिविशेषस्य संज्ञा एताः ।
[अश्वकं रूपम्, अश्विका प्रतिमा, अश्वकानि रूपाणि] अश्वं रूपम् । अनेन कप्र० । एवम्-अश्विका प्रतिमा । अश्वस्य तुल्यानि रूपाणि । अनेन कप्र० । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[गवयः] 'गुत् पुरीषोत्सर्गे' (१४२७) गु । गुवतीति गवयः । 'कु-गु-वलि-मलि-कणि-तन्याम्यक्षेरयः' (उणा० ३६५) अयप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [शिवकः] शिव इव = शिवकः । मतान्तरे अनेनैव कप्र० ॥छ।
न नृ-पूजार्थ-ध्वज-चित्रे ॥ ७।१।१०९ ॥ [न] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । उणादौ-गुंङ् शब्दे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org