________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायो ।
[ईयश्च] ईय प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि ।
[अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः] अभ्यमित्र मण्ड्यते । अभ्यमित्रमलङ्गामी = अभ्यमित्रीयः । अनेन ईयप्र० । एवम् - अभ्यमित्र्यः, अभ्यमित्रीणः । अनेनैव य-ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'र-वर्णान्नो ण एकपदेऽनन्त्यस्या-उल-च-ट-तवर्ग-श-सान्तरे' (२।३।६२) णत्वम् । अमित्राभिमुखं भृशं गन्तेत्यर्थः ॥छ।।
समांसमीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्तपदीनम् ॥ ७।१।१०५ ॥ [समांसमीनाऽद्यश्वीनाऽद्यप्रातीनाऽऽगवीनसाप्तपदीनम्] समांसमीनश्च अद्यश्वीनश्च अद्यप्रातीनश्च आगवीनश्च साप्तपदीनश्च (साप्तपदीनं च) = समांसमीनाऽद्यश्वीनाऽद्यप्रातीनाऽऽगवीनसाप्तपदीनम् ।
[समांसमीना गौः] समां समां गर्भ धारयति = समांसमीना । अनेन ईनप्र० - पूर्वपदविभक्तेश्चालुक् । 'अवर्णेवर्णस्य' (७/४/६८) आलुक्, गौः । वर्षं वर्ष प्रति गर्भ धारयतीत्यर्थः । समामिति 'काला-ऽध्वनोळप्तौ' (२।२।४२) इति द्वितीया । 'वीप्सायाम्' (७।४।८०) समां द्विवचनम् । समायां समायां विजायते-गर्भ विमुञ्चति = समांसमीना । मतान्तरेऽनेन ईनप्र० - पूर्वपदस्य यलोपश्च । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'आत्' (२।४।१८) आपप्र० → आ । व्याप्त्यभावाच्चाधिकरणे सप्तमी ।
[अद्यश्वीना गौः] अद्य-श्वस् मण्ड्यते । अद्य च श्वस् च = अद्यश्वस् । अद्य श्वो वा विजनिष्यमाणा = अद्यश्वीना .. गौः । अनेन ईनप्र० । 'प्रायोऽव्ययस्य' (७४।६५) अस्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । एवं नाम प्रत्यासन्नप्रसवेत्यर्थः ।
[अद्यश्वीनो लाभः] अद्य श्वो वा भविष्यति = अद्यश्वीनो लाभः । अनेन ईनप्र० । 'प्रायोऽव्ययस्य' (७४/६५) अस्लुक् ।
[अद्यश्वीनं मरणम] अद्य श्वो वा भविष्यति = अद्यश्वीनं मरणम् । अनेन ईनप्र० । 'प्रायोऽव्ययस्य' (७४।६५) अस्लुक् ।
[अद्यप्रातीना गौः] अद्य प्रातर्वा विजनिष्यमाणा = अद्यप्रातीना गौः । अनेन ईनप्र० ।
[अद्यप्रातीनो लाभः, अद्यप्रातीनं मरणम् ] अद्य प्रातर्वा विजनिष्यमाणः = अद्यप्रातीनो लाभः, अद्यप्रातीनं मरणम् । मतान्तरे अनेनैव ईनप्र० । 'प्रायोऽव्ययस्य' (७४/६५) अलुप् । मतान्तरेणैतौ । स्वमते तु अद्यश्वीना गौविजननप्रत्यासत्तावेव भवति ।
[आगवीनः कर्मकरः] गोप्रतिदानात् आ = आगोप्रतिदानम् । आगोप्रतिदानं कारी = आगवीन: कर्मकरः । अनेन ईनप्र० - प्रतिदानस्य च लुक् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । गवा भृतो य आ तस्या गोः प्रत्यर्पणात्कर्म करोति स आगवीनः ।
[साप्तपदीनं सख्यम्, साप्तपदीनः सखा, साप्तपदीनं मित्रम् ] सप्तन्-पद । सप्तभिः पदैरवाप्यं = साप्तपदीनं सख्यं सखा मित्रं वा । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
अषडक्षा-ऽऽशितंग्वलङ्कर्मा-ऽलंपुरुषादीनः ॥ ७।१।१०६ ॥ [अषडक्षाऽऽशितंग्वलङ्कर्माऽलंपुरुषात्] अषडक्षश्च आशितगुश्च(गु च) अलङ्कर्मा(म) च अलंपुरुषश्च = अषडक्षाऽऽशितंग्वलङ्कर्माऽलंपुरुषम्, तस्मात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org