SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ ४९ [यथाकामीनः] यो यः कामो यथाकामम् । यथाकामं गामी = यथाकामीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अनुकामीन: ] कामस्यानुरूपम् = अनुकामम् । अनुकामं गामी = अनुकामीनः । अनेन ईनप्र० । यथेच्छं गामीत्यर्थः । [अत्यन्तीनः] अतिक्रान्तोऽन्तो यत्र तत् = अत्यन्तम् । अत्यन्तं गामी = अत्यन्तीनः । अनेन ईनप्र० । भृशं गन्तेत्यर्थः ॥छ। पारावारं व्यस्त-व्यत्यस्तं च ॥ ७।१।१०१ ॥ [पारावारम् ] पारावारम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [व्यस्तव्यत्यस्तम्] व्यस्तव्यत्यस्तम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [च] च प्रथमा सि । [पारावारीणः ] अवारस्य-समुद्रस्य पारं = पारावारम् । राजदन्तादित्वात् पारशब्दस्य पूर्वनिपातः । पारावारं गामी = पारावारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पारीणः ] पारं गामी = पारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अवारीणः ] अवारं गामी = अवारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [अवारपारीणः ] अवारपारं गामी = अवारपारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। अनुग्वलम् ॥ ७।१।१०२ ॥ [अनुगु] गवां पश्चादनुगु । 'क्लीबे' (२।४।९७) हुस्व: । द्वि० अम् । 'अनतो लुप्' (१।४।५९) अम्लुप् । [अलम् ] अलम् प्रथमा सि । 'अव्ययस्य' (३।२७) लुप् । अलं-पर्याप्तमित्यर्थः । [अनुगवीनो गोपालकः ] गवां पश्चादनुगु । 'विभक्ति-समीप-समृद्धि-व्यद्ध्यर्थाभावा-ऽत्यया-संप्रति-पश्चात्-क्रमख्याति-युगपत्-सदृक्-सम्पत्-साकल्यान्तेऽव्ययम्' (३।१।३९) इत्यादिना अव्ययीभावः । 'क्लीबे' (२।४।९७) हस्वः । अनुगु अलंगामी = अनुगवीनो गोपालकः । अनेन ईनप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ॥छ।। अध्वानं येनौ ॥ ७।१।१०३ ॥ [अध्वानम् ] अध्वानम् पञ्चमी ङसि । सूत्रत्वाल्लोपः । [येनौ ] यश्च ईनश्च = येनौ । औ । अलङ्गामिनीति वर्तते । [अध्वन्यः, अध्वनीनः] अध्वानमलङ्गामी = अध्वन्यः, · अध्वनीनः । अनेन य-ईनप्र० । 'अनोऽट्ये-ये' (७४।५१) - 'ईनेऽध्वा-ऽऽत्मनोः' (७४।४८) अन्लोपाभावः ॥छ।। अभ्यमित्रमीयश्च ॥७।१।१०४ ॥ [अभ्यमित्रम् ] अमित्रमभि = अभ्यमित्रम् । 'लक्षण-वीप्स्येत्थम्भूतेष्वभिना' (२।२।३६) इत्यादिना द्वितीया अम् । पञ्चमी ङसि । सूत्रत्वाल्लोपः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy