________________
४४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[माष्यम्, माषीणम्] माषाणां क्षेत्रं = माष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्माषीणम् । 'धान्येभ्य ईन' (७१७९) ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ।।
वोमा-भङ्गा-तिलात् ॥ ७।१८३ ॥ [वा] वा प्रथमा सि ।
[उमाभङ्गातिलात्] उमा च भङ्गा च तिलश्च = उमाभङ्गातिलम, तस्मात् । उमाभङ्गेऽपि धान्ये एव इष्यते । यद्यपि धान्यत्वमेतयोर्न प्रसिद्ध तथापि सण सप्तदशधान्यभेदः सत्तरसं धन्नमिति वाक्यात् प्रसिद्धम्, ततः पक्षे-ईन ।
[उम्यम्, औमीनम् ] उत्त्वं मीयते = उमा । 'उपसर्गादातो डोऽश्यः' (५।१५६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । पृषोदरादित्वात् दलोपत्वं निपात्यते । उमानां = अतसीनां क्षेत्रम् = उम्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । एवम् - औमीनम् । 'धान्येभ्य ईन' (७१।७९) ईनप्र० → ईन । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ।
[भनयम्, भाङ्गीनम् ] भङ्गा-शणधान्यम् । भङ्गानां क्षेत्रं = भङ्ग्यम् । अनेन यप्र० । एवम्-भाङ्गीनम् । 'धान्येभ्य ईनज्' (७।१।७९) ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य'. (७।४।६८). आलुक् । __ [तिल्यम्, तैलीनम् ] तिलानां क्षेत्रं = तिल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्तैलीनम् । 'धान्येभ्य ईन' (७।४।७९) ईनप्र० → ईन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
अलाब्वाश्च कटो रजसि ॥ ७१८४॥
[अलाब्वाश्च ] अलाबू पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । च प्रथमा सि ।
[कटः] कट प्रथमा सि । [रजसि] रजस् सप्तमी ङि । [अलाबूकटम् ] अलाबूनां रजः = अलाबूकटम् । अनेन कटप्र० । [ उमाकटम् ] उमानां रजः = उमाकटम् । अनेन कटप्र० । [भङ्गाकटम्] भङ्गानां रजः = भङ्गाकटम् । अनेन कटप्र० । [तिलकटम् ] तिलानां रजः = तिलकटम् । अनेन कटप्र० ॥छ।।
अह्ना गम्येऽश्वादीनञ् ॥ ७।१८५ ॥ [ अह्ना ] अहन् तृतीया टा । 'अनोऽस्य' (२।१।१०८) अलुक् । [गम्ये ] गम्यत इति गम्यस्तस्मिन् । [अश्वात्] अश्व पञ्चमी ङसि । " [ईनञ् ] ईनञ् प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org