SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [मौद्गीनम् ] मुद्गानां क्षेत्रं = मौद्गीनम् । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [प्रैयङ्गवीणम् ] प्रियङ्गु । प्रियङ्ग्णां क्षेत्रं = प्रैयङ्गवीणम् । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [नैवारीणम् ] नीवाराणां क्षेत्रं = नैवारीणम् । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् । [कौद्रवीणम् ] कोद्रवाणां क्षेत्रं = कौद्रवीणम् । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ। व्रीहि-शालेरेयञ् ॥ ७।१८० ॥ [व्रीहिशालेः] व्रीहिश्च शालिश्च = व्रीहिशालि, तस्मात् । [एयञ्],एयञ् प्रथमा सि ।। [वैहेयम् ] व्रीहीणां क्षेत्रं = त्रैहेयम् । अनेन एयप्र० → एय । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक्। [शालेयम् ] शालीनां क्षेत्रं = शालेयम् । अनेन एयप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ॥छ।। यव-यवक-षष्टिकाद् यः ॥ ७।१८१ ॥ [यवयवकषष्टिकात् ] यवश्च यवकश्च षष्टिकश्च = यवयवकषष्टिकम्, तस्मात् । [यः] य प्रथमा सि । [यव्यम् ] यवानां क्षेत्रं = यव्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [यवक्यम् ] यवानां तुल्याः = यवकाः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७१।१०८) कप्र० । यवकानां क्षेत्रं = यवक्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [षष्टिक्यम्] षष्टिरात्रेण पच्यमाना व्रीहयः = षष्टिकाः । अत्र(त) एव निपातनात् कप्र० । षष्टिकानां क्षेत्रं = षष्टिक्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।। वाऽणु-माषात् ॥ ७।१८२ ॥ [वा] वा प्रथमा सि । [अणुमाषात् ] अणुश्च माषश्च = अणुमाषम्, तस्मात् । [अणव्यम्, आणवीनम् ] अणुः - रालकादिधान्यविशेषः । अणूनां क्षेत्रम् = अणव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । एवम्-आणवीनम् । 'धान्येभ्य ईन' (७।१७९) ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy