SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ ४१ [काठिकया विकत्थते ] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । द्वितीयस्य अणो लुप्' 'कठादिभ्यो वेदे लुप्' (६।३।१८३) इत्यनेन । कठानां भावः कर्म वा = काठिका, तया । अनेन अकप्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय' (१।२।२३) अय् । एवमग्रेऽपि । 'कत्थि श्लाघायाम्' (७१९) कत्थ् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । __ [गार्गिकयात्याकुरुते ] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गाय॑स्य भावः कर्म वा = गार्गिका, तया । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । अति-आङ् 'डुइंग् करणे' (८८८) कृ। वर्त० ते । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।९८) अ० → उ० ।। [काठिकयाधिक्षिपति] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । द्वितीयस्य अणो लुप् 'कठादिभ्यो वेदे लुप्' (६।३।१८३) इत्यनेन । कठानां भावः कर्म वा = काठिका, तया । अनेन अकप्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय' (१२।२३) अय् । 'क्षिपीत् प्रेरणे' (१३१७) क्षिप्, अधिपूर्व० । वर्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । __ [गार्गिकां प्राप्तवान् ] 'आप्लँट् व्याप्तौ' (१३०७) आप्, प्रपूर्व० । प्राप्नोति स्म = प्राप्तवान् । क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [काठिकामधिगतवान् ] अधिगच्छति स्म = अधिगतवान् । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'यमिरमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति' (४।२।५५) मलुक् । __[गार्गिकामवगतवान् ] अवगच्छति स्म = अवगतवान् । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'यमिरमि-नमि-गमि०' (४।२।५५) मलुक् । [काठिकां विज्ञातवान् ] वि 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । विजानाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [गार्गम् ] गाय॑स्य भावः = गार्गम् । 'प्राणिजाति-वयोऽर्थाद' (७।१।६६) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । सि-अम् । - [काठम्] कठानां भावः कर्म वा = काठम् । 'प्राणिजाति-वयोऽर्थाद' (७।१।६६) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।। होत्राभ्य ईयः ॥ ७१७६ ॥ [होत्राभ्यः] होत्रा पञ्चमी भ्यस् । [ईयः] ईय प्रथमा सि । होत्राशब्द ऋत्विग्विशेषवचनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy