________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
द्वन्द्वाल्लित् ॥ ७।१७४ ॥
[द्वन्द्वात् ] द्वन्द्व पञ्चमी ङसि । [लित्] ल् इदनुबन्धो यस्य सः = लित् । प्रथमा सि । लित्करणं स्त्रीत्वार्थम् ।
[गौपालपशुपालिका] गोपालपशुपालानां भावः कर्म वा = गौपालपशुपालिका । अनेन अकप्र० → अक । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० . → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ ।
[शैष्योपाध्यायिका] शिष्याश्च उपाध्यायाश्च = शिष्योपाध्यायाः, तेषां भावः कर्म वा = शैष्योपाध्यायिका । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ।
[कौत्सकुशिकिका] कुत्सस्यापत्यानि वृद्धानि = कुत्साः । कुत्सि(शि)कस्यापत्यानि वृद्धानि = कुत्सि(शि)काः । 'विदादेवृद्धे' (६।१।४१) अप्र० । 'यत्रोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) अञ्लुप् । कुत्साश्च कुशिकाश्च = कौत्सकुशिकिका । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ।
[वैनिका] विश्च पक्षी-ना च नरः = विनरौ। विनोर्भावः कर्म वा = वैनिका । अनेन अकप्र० → अक। 'वृद्धिः . स्वरेष्वादेणिति०' (७।४।१) वृद्धि: ऐ । 'ऋतो रस्तद्धिते' (१।२।२६) रत्वम् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । 'य्ववर्णाल्लघ्वादेः' (७।१।६९) इत्यणि प्राप्ते परत्वादकञ् ।
[भारतबाहुबलिका ] भरतश्च बाहुबलिश्च । भरतबाहुबल्योर्भावः = भारतबाहुबलिका । अनेन अकप्र० → अक। . 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ ।
[गोपालपशुपालत्वम्, गोपालपशुपालता] गोपालपशुपालकानां भावः कर्म वा = गोपालपशुपालत्वम्, गोपालपशुपालता । अनेनैव त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
गोत्र-चरणाच्छ्लाघा-ऽत्याकार-प्राप्त्यवगमे ॥ ७।१।७५ ॥ [गोत्रचरणात् ] गोत्रं च चरणं च = गोत्रचरणम्, तस्मात् । [ श्लाघाऽत्याकारप्राप्त्यवगमे ] श्लाघा च अत्याकारश्च प्राप्तिश्च अवगमश्च = श्लाघाऽत्याकारप्राप्त्यवगमम्, तस्मिन् ।
श्लाघा विकत्थनम् । अत्याकारः परपरिभवः पराधिक्षेपः । विषयभावः पुनः श्लाघादीनां क्रियारूपाणां भावकर्मणी प्रति साध्यत्वात्, भावकर्मभ्यां कर्तभ्यां श्लाघादयो यत्र साध्यन्ते इति तात्पर्यम् । गोत्रमपत्यं तस्याध्यायस्तत्र पठितं प्रवराध्यायपठितं च । चरणं शाखानिमित्तं कठादिः ।
[गार्गिकया श्लाघते] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्य' (६।१।४२) यप्र० → य । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गाय॑स्य भावः कर्म वा = गार्गिका, तया । अनेन अकबप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । 'श्लाघृङ् कत्थने' (६४५) श्लाघ् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org