________________
सप्तमाध्यायस्य प्रथमः पादः ॥
गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरपरिग्रहार्थं च, अन्यथा दीर्घोपोत्तमादित्युच्येत ।
[कापोतम् ] कपोतस्य भावः = कापोतम् । 'प्राणिजाति-वयोऽर्थादज्' (७।१।६६) अप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[विमानत्वम् ] विमानस्य भावः = विमानत्वम् । 'भावे त्व-तल्' (७।१५५) त्वप्र० । [क्षत्रियत्वम् ] क्षत्रियस्य भावः = क्षत्रियत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० ।
[कायत्वम् ] कायस्य भावः = कायत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । प्रथमे गुरुर्नास्ति द्वितीये तु उपोत्तमत्वं नास्ति । [सुप्रख्यत्वम्, सौप्रख्यम् ] सु-
प्र ख्यांक प्रथने' (१०७१) ख्या । सुप्रचष्टे = सुप्रख्यः । 'उपसर्गादातो डोऽश्यः' (५।१५६) डंप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । सुप्रख्यस्य भावः कर्म वा = सुप्रख्यत्वम् । 'भावे त्व-तल्' (७१५५) त्वप्र० । एवम्-सौप्रख्यम् । 'पतिराजान्त०' (७११६०) ट्यणप्र० → य । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
चोरादेः ॥ ७।१७३ ॥ [चोरादेः ] चोर आदिर्यस्य सः = चोरादिः, तस्मात् ।
[चौरिका, चौरकम् ] चोरस्य भावः कर्म वा = चौरिका, चौरकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ ।
[धौर्तिका, धौर्तकम] धर्तस्य भावः कर्म वा = धौतिका, धौर्तकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) अ० → इ० ।
- [मानोज्ञकम् ] मनोज्ञस्य भावः कर्म वा । मनोज्ञादीनामकान्तानां नपुंसकत्वमेव "आ त्वात् त्वादिः" इति । पूर्वेषां तु "चोराद्यमनोज्ञाद्यकञ्" इति स्त्रीनपुंसकता । मानोज्ञकम् ।
[प्रेयरूपकम् ] प्रियं रूपं यस्य सः = प्रियरूपः, तस्य भावः कर्म वा = प्रेयरूपकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[चोरत्वम्, चोरता ] चोरस्य भावः कर्म वा = चोरत्वम्, चोरता । अनेनैव त्व-तत्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । - [चौर्यम् ] चोरस्य भावः = चौर्यम् । 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलक ।
[धौर्त्यम् ] धूर्तस्य भावः = धौर्त्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[ग्रामिक्यम्] ग्रामोऽस्यास्ति = ग्रामिकम् । ग्रामिकस्य भावः = ग्रामिक्यम् । 'पतिराजान्त०' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
9
क्रि० स०-ख्यांक प्रकथने, प्रकटने इत्यन्ये । धा० पा०-प्रथने, प्रकथने इत्यन्ये ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org