SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । - समासविषये प्रतिषेधार्थं पुरुषोपादानम् ॥छ।। श्रोत्रियाद् यलुक् च ॥ ७।१७१ ॥ [श्रोत्रियात् ] श्रोत्रिय पञ्चमी ङसि । [यलुक्] यस्य लुक् = यलुक् । प्रथमा सि । [च] च प्रथमा सि । [श्रौत्रम्, श्रोत्रियत्वम्, श्रोत्रियता, श्रोत्रियकम् ] छन्दस् । छन्दोऽधीते = श्रोत्रियः । 'छन्दोऽधीते श्रोत्रश्च वा' (७१।१७३) इयप्र० - "श्रोत्र"देशश्च । श्रोत्रियस्य भावः कर्म वा = श्रौत्रम् । अनेन अणप्र० → अ - यलुक् च । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-श्रोत्रियत्वम्, श्रोत्रियता । अनेन त्वतलप्र० । एवम्-श्रोत्रियकम् । 'चोरादेः' (७१।७३) अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।। योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् ॥ ७।१७२ ॥ [योपान्त्यात् ] य उपान्त्यो यस्य सः = योपान्त्यः, तस्मात् । __ [गुरूपोत्तमात् ] गुरुरुपोत्तमं यस्य सः = गुरूपोत्तमः, तस्मात् । यद्वा अक्षराणां पङ्क्तौ तृतीयमक्षरमारभ्य उत्तममिति संज्ञा त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम् । उपोत्तमं गुरुर्यस्य सः = गुरूपोत्तमः, तस्मात् । 'विशेषण-सर्वादिसंख्यं बहुव्रीहौ' (३।१।१५०) इत्यादिना गुरुशब्दस्य पूर्वनिपातः । [असुप्रख्यात्] न सुप्रख्यः = असुप्रख्यः, तस्मात् । [अकञ्] अकञ् प्रथमा सि ।। [रामणीयकम्, रमणीयत्वम्, रमणीयता] रमणीयस्य भावः कर्म वा = रामणीयकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-रमणीयत्वम्, रमणीयता । अनेनैव त्व-तलप्र० । [दार्शनीयकम् ] दर्शनीयस्य भावः कर्म वा = दार्शनीयकम् । अनेन अकप्र० →. अक । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कामनीयकम् ] कमनीयस्य भावः कर्म वा = कामनीयकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [औपाध्यायकम् ] उपाध्यायस्य भावः कर्म वा = औपाध्यायकम् । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पानीयकम् ] पानीयस्य भावः कर्म वा = पानीयकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति [आचार्यकम् ] आर्चायस्य भावः कर्म वा = आचार्यकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy