SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [कार्शानवम् ] कृशानु । कृशानोर्भाव: कर्म वा = कार्शानवम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आर् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । [आरत्नम् ] अरत्नेर्भावः कर्म वा = आरत्नम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् । [आरातम्] अरातेर्भावः कर्म वा = आरातम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । सि-अम् ॥छ।। पुरुष-हृदयादसमासे ॥ ७।१७० ॥ [पुरुषहृदयात् ] पुरुषश्च हृदयश्च = पुरुषहृदयम्, तस्मात् । [असमासे ] न समासः = असमासस्तस्मिन् । 'नजत्' (३।२।१२५) न० → अ० । न इति प्रसज्यप्रतिषेधः, न पर्युदासः, तत्र हि समासादन्यत्र स्यात् । बहुहृदय-बहुपुरुष इति इह न स्यात् । पौरुषम्हाईमिति । [पौरुषम्, पुरुषत्वम्, पुरुषता] पुरुषस्य भावः कर्म वा = पौरुषम् । अनेन अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-पुरुषत्वम्, पुरुषता । अनेन त्व-तल्प्र० । [हाईम्, हृदयत्वम्, हृदयता] हृदयस्य भावः कर्म वा = हाईम् । अनेन अण्प्र० → अ । 'हृदयस्य हल्लास-लेखाऽण्-ये' (३।२।९४) हृदयस्य "हृद्"देशः । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आर् । एवम्-हृदयत्वम्, हृदयता । अनेन त्व-तलप्र० । [परमपुरुषत्वम् ] परमश्चासौ पुरुषश्च = परमपुरुषः, तस्य भावः = परमपुरुषत्वम् । 'भावे त्व-तल्' (७१।५५) त्वप्र० । -[परमहृदयत्वम्] परमश्चासौ हृदयश्च = परमहृदयः, तस्य भावः = परमहृदयत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । [ सत्पुरुषत्वम् ] सतः पुरुषस्य भावः = सत्पुरुषत्वम् । 'भावे त्व-तल्' (७१।५५) त्वप्र० । [सौहृदय्यम् ] शोभनस्य हृदयस्य भावः = सौहृदय्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । वृद्धिः औ । [काकस्य काय॑म् ] काकस्य कृष्णस्य भावः = काकस्य कार्यम् । 'अस्वस्थगुणैः' (३।११८७) इति समासनिषेधः । 'पतिराजान्तगुणाङ्ग०' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [बलाकायाः शौक्ल्यम् ] बलाकायाः शुक्लाया भावः = बलाकायाः शौक्ल्यम् । 'अस्वस्थगुणैः' (३।११८७) इति समासनिषेधः । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [पौरुषम् ] पुरुषस्य भावः = पौरुषम् । 'प्राणिजाति-वयोऽर्थाद' (७१।६६) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 卐 है० प्र० - आरातेर्भावः कर्म वा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy