SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [शाकुनम् ] शकुनेर्भावः = शाकुनम् । [मौनम्] मुनेर्भावः = मौनम् । [साम्मतम् ] सङ्गता मतिर्यस्य-सती विद्यमाना मतिर्यस्येति वा = सम्मतिः । सम्मतेर्भावः = साम्मतम् । [काव्यम् ] कवे वः कर्म वा = काव्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० य । 'वृद्धिः स्वरेष्वादेणिति०' . (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । [नाखरजनम् ] नख 'रञ्जी रागे' (८९६) रज् । नखा रज्यन्तेऽनया = नखरजनी । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । पृषोदरादित्वात् नलोपः । गूर्जर धात्रीदेशे मींती महन्दी कथ्यते । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । नखरजन्या भावः कर्म वा = नाखरजनम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । ___ [हारीतकम् ] 'हंग् हरणे' (८८५) हृ । हरति रोगान् प्राणिनामिति हरीतकी । 'ह-रुहि-पिण्डिभ्य ईतकः' (उणा० ७९) ईतकप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । हरीतक्या भावः कर्म वा = हारीतकम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । [तैतवम् ] तितउ पुं-नपुंसकः । तितउनो भावः कर्म वा = तैतवम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [पार्थवम् ] पृथु । पृथोर्भावः = पार्थवम् । अनेन अण्प्र० -→ अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आर् । ' 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [पाटवम् ] पटोर्भावः = पाटवम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । [लाघवम् ] लघोर्भावः = लाघवम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [वाधवम् ] वधू । वध्वा भावः कर्म वा = वाधवम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [पैत्रम् ] पितृ । पितुर्भावः = पैत्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'ऋतो रस्तद्धिते' (१।२।२६) रत्वम् । आदिग्रहणं समीपमात्रार्थम्, तेन तितउ इत्यत्राव्यवहिते शुच्यादौ चैकवर्णव्यवहिते लघुनि भवति । [घटत्वम् ] घटस्य भावः = घटत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । [पटत्वम् ] पटस्य भावः = पटत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । [पाण्डुत्वम् ] पाण्डोर्भावः = पाण्डुत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । [कण्डूत्वम् ] कण्ड्वा भावः = कण्डूत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy