________________
सप्तमाध्यायस्य प्रथमः पादः ॥
युवादेरण् ॥ ७।१।६७ ॥ [युवादेः ] युवा आदिर्यस्य सः = युवादिः, तस्मात् । [अण्] अण् प्रथमा सि ।
[यौवनम्, युवत्वम्, युवता] युवन् । यूनो लिङ्गविशिष्टस्यापि ग्रहणात् युवते वः कर्म वा = यौवनम् । अनेन अण्प्र० → अ । 'जातिश्च णि-तद्धितयस्वरे' (३।२।५१) पुंवद्भावः । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । अग्रेतने त्व-तलप्र० → त ।
[यौवनिका] यूनो भावः कर्म वा = यौवनिका । 'चोरादेः' (७।११७३) अकञ्प्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'इच्चापुंसो०' (२।४।१०७) इ । वृद्धिः औ । 'यूनोऽके' (७।४।५०) अन्त्यस्वरादिलुगभावः । __[स्थाविरम्, स्थविरत्वम्, स्थविरता] स्थविरस्य भावः कर्म वा = स्थाविरम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अग्रेतने २ अने
[सौहार्दम्, दौहार्दम् ] सुहृदय-दुहृदयशब्दयोरणि 'हृदयस्य०' (३।२।९४) इत्यादिना हृद्देशे कृते 'हृद्-भग-सिन्धोः' (७।४।२५) इत्युभयपदवृद्धौ सौहार्दम्-दौहार्दमिति । एवमुत्तरयोरपि । ततश्च एकतरद्वयोपादानेनैव सिद्धे यद् युगपद् द्वयोपादानं तदर्थभेदार्थम् ॥छ।।
हायनान्तात् ॥ ७।१६८ ॥ [हायनान्तात् ] हायनः अन्ते यस्य सः = हायनान्तः, तस्मात् ।
[द्वैहायनम्, द्विहायनत्वम्, द्विहायनता] द्वे हायने यस्य गृहस्य तत् = द्विहायनम् । द्विहायनस्य भावः = द्वैहायनम् । अनेन अण्प्र० → अ । वृद्धिः ऐ । एवम्-द्विहायनत्वम्, द्विहायनता । अनेन त्व-तलूप्र० → त ।
[त्रैहायनम् ] त्रयो हायना यस्य गृहस्य तत् = बिहायनम् । त्रिहायनस्य भावः = त्रैहायनम् । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र अवयोवचनात् 'चतुस्त्रेयिनस्य वयसि' (२।३।७४) इति णत्वं न भवति ।
[चातुर्हायनम् ] चत्वारो हायना यस्य गृहस्य तत् = चतुर्हायनम्, तस्य भावः = चातुर्हायनम् । अनेन अण्प्र० → अ । वृद्धिः आ । अत्र अवयोवचनात् 'चतुस्त्रेयिनस्य वयसि' (२।३।७४) इति णत्वं न भवति । ___ वयसि तु - [ ब्रहायणम् ] त्रिहायनस्य भावः = त्रैहायणम् । 'प्राणिजाति-वयोऽर्थादज्' (७।१।६६) अप्र० → अ। वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'चतुस्त्रेयिनस्य वयसि' (२।३।७४) णत्वम् ।
[चातुर्हायणम् ] चतुर्हायनस्य भावः = चातुर्हायणम् । 'प्राणिजाति-वयोऽर्थादब्' (७।१।६६) अप्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'चतुस्त्रेयिनस्य वयसि' (२।३।७४) णत्वम् ॥छ।
ववर्णाल्लध्वादेः ॥७१।६९ ॥
[य्ववर्णात् ] इश्च उश्च ऋश्च = स्व । स्व(व)णां वर्णः = वृवर्णस्तस्मात् । [लघ्वादेः ] लघुरादिः समीपो यस्य सः = लघ्वादिः, तस्मात् ।
[शौचम्, शुचित्वम्, शुचिता] शुचेर्भावः कर्म वा = शौचम् । अनेन अणप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) इलुक । एवम्-शुचित्वम्, शुचिता । अनेनैव त्व-तलप्र० → त ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org