________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
यद्यपि कपिशब्दस्य प्राणिजातित्वं तथापि विशेषत्वात् 'य्ववर्णाल्लघ्वादेः' (७१।६९) इत्यादिनाऽणि प्राप्ते कपेरिकारान्तत्वादणि प्राप्ते, ज्ञातेश्च प्राणिजातित्वादजि प्राप्ते वचनम् ॥छ।।
प्राणिजाति-वयोऽर्थादञ् ।। ७।१।६६ ॥ [प्राणिजातिवयोऽर्थात् ] प्राणी चासौ जातिश्च = प्राणिजातिः । प्राणिजातिश्च वयोऽर्थश्च = प्राणिजातिवयोऽर्थम्,' तस्मात् ।
[अञ्] अञ् प्रथमा सि ।
[आश्वम्, अश्वत्वम्, अश्वता] अश्वस्य भावः कर्म वा = आश्वम् । अनेन अप्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । एवम्-अश्वत्वम्, अश्वता । अनेनैव त्व-तत्प्र० । __ [गाईभम् ] गर्दभस्य भावः = गाईभम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[माहिषम् ] महिषस्य भावः कर्म वा = माहिषम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[द्वैपम् ] द्वीपिन् । द्वीपिनो भाव: कर्म वा = द्वैपम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । सि-अम् ।। __ [हास्तम् ] हस्तिन् । हस्तिनो भावः कर्म वा = हास्तम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । सि-अम् ।।
वयोऽर्थ - [कौमारम्, कुमारत्वम्, कुमारता] कुमारस्य भावः कर्म वा = कौमारम् । अनेन अप्र० → अ। : 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-कुमारत्वम्, कुमारता । अनेन त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० - आ ।
[कैशोरम् ] किशोरस्य भावः कर्म वा = कैशोरम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[शावम् ] शवस्य भावः कर्म वा = शावम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वार्करम् ] वर्करस्य भावः कर्म वा = वार्करम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कालभम् ] कलभस्य भावः कर्म वा = कालभम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[तृणत्वम्, तृणता] तृणस्य भावः = तृणत्वम्, तृणता । 'भावे त्व-तल्' (७।१।५५) त्व-तत्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ।
[ देवदत्तत्वम्, देवदत्तता ] देवदत्तस्य भावः = देवदत्तत्वम्, देवदत्तता । 'भावे त्व-तल्' (७।१।५५) त्व-तत्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org