SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ सखि - वणिग्- दूताद् यः ॥ ७।१।६३ ॥ [ सखिवणिग्दूतात् ] सखा च वणिग् च दूतश्च = सखिवणिग्दूतम्, तस्मात् । [ यः ] य प्रथमा सि । [ सख्यम्, सखित्वम्, सखिता ] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सन् । अथवा 'षिवूच् उतौ' (१९६४) षिव् । ( ' षेवृङ् सेवने' (८१८) षेव्) । 'षः सोऽष्टयै - ष्ठिव ० ' (२|३|९८) सिव् (सेव्) । सन्यते सीव्यते (सेव्यते) मित्रतया इति सखि । 'सनेर्डखि : ' ( उणा० ६२५) डखिप्र० । डिसंज्ञकत्वात् 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । सख्युर्भावः कर्म वा = सख्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम्-सखित्वम्, सखिता । 'प्राक्त्वादगडुलादेः' (७ ११५६) त्व - तल्प्र० त । 'आत्' (२।१।१८) आप्प्र० आ । [ वणिज्या, वणिज्यम्, वणिक्त्वम्, वणिक्ता ] वणिज् । वणिजो भावः = वणिज्या । अनेन यप्र० । 'आत्' (२।४।१८) आप्प्र ० आ । एवम् वणिक्त्वम्, वणिक्ता । 'प्राक्त्वादगडुलादेः' (७|१|५६) त्व- तल्प्र०त । 'आत्' (२।४।१८) आप्प्र० आ । ३३ [ दूत्यम्, दूतत्वम्, दूतता ] दूतस्य भावः कर्म वा = दूत्यम् । अनेन यप्र० । अग्रे पूर्ववत् । [ वाणिज्यम् ] वणिजो भावः = वाणिज्यम् । ‘पतिराजान्त०' (७|१/६०) ट्यण्प्र० → य । 'वृद्धिः स्वरे० ' (७|१|४) वृद्धिः आ । सि-अम् । [ दौत्यम् ] दूतस्य भावः = दौत्यम् । 'पतिराजान्त०' (७|११६०) ट्यण्प्र० य । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ॥छ || स्तेनान्नलुक् च ॥ ७।११६४ ॥ [ स्तेनात्] स्तेन पञ्चमी ङसि । [ नलुक् ] नस्य लुक् = नलुक् । प्रथमा सि । [च] च प्रथमा सि । [ स्तेयम्, स्तेनत्वम्, स्तेनता, स्तैन्यम् ] स्तेनस्य भावः कर्म वा = स्तेयम् । अनेन यप्र० - नलुक् च । एवम् - स्तेनत्वम्, स्तेनता । 'प्राक्त्वादगडुलादेः' (७|१|५६) त्व - तल्प्र० । एवम् - स्तैन्यम् । 'पतिराजान्त०' ( ७|१|६०) ट्यण्प्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ। कपि ज्ञातेरेयण् ॥ ७।१।६५ ॥ [ कपिज्ञातेः ] कपिश्च ज्ञातिश्च = कपिज्ञाति, तस्मात् (तस्याः) । [ एयण् ] एयण् प्रथमा सि । [ कापेयम्, कपित्वम्, कपिता ] कपि । कपेर्भावः कर्म वा = कापेयम् । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । अग्रेतने 'प्राक्त्वादगडुलादेः' (७|१|५६) त्व-तप्र० । [ ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ] ज्ञातेर्भावः कर्म वा = ज्ञातेयम् । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । अग्रेतने २ 'प्राक्त्वादगडुलादेः' (७/१/५६) त्व - तल्प्र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy