SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वैदुष्यम् ] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । 'वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् । विदुषो भावः = वैदुष्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'क्वसुष्मतौ च' (२।१।१०५) "उष्"देशः । 'संस्-ध्वंस्-क्वस्सनडुहो दः' (२।१६८) इत्यादिना दो भवति । __ [राज्यम्, राजत्वम्, राजता] राज्ञो भावः कर्म वा = राज्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । अग्रेतने २ अपि अनेनैव त्व-तलप्र० । [काव्यम्, कवित्वम्, कविता] कवि । कवेर्भावः = काव्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । अग्रेतने २ अपि अनेनैव त्व-तलप्र० । [ब्राह्मण्यम्, ब्राह्मणत्वम्, ब्राह्मणता] ब्राह्मणस्य भावः = ब्राह्मण्यम् । अनेन ट्यणप्र० → य । अग्रेतने २ अपि अनेनैव त्व-तत्प्र० । चकारो भावे कर्मणि चेत्युभयसमुच्चयार्थः । [अनृशंस ] नृ 'शंसू स्तुतौ च' (५५०) शंस् । नृन् शंसति = नृशंस: । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । न नृशंसः = अनृशंसः ॥छ।। अर्हतस्तो न्त् च ॥ ७।१।६१ ॥ [अर्हतः] अर्हत् षष्ठी ङस् । [तः] त् षष्ठी ङस् । [न्त् ] न्त् प्रथमा सि । [च] च प्रथमा सि । [आर्हन्त्यम्, आर्हन्ती, अर्हत्त्वम्, अर्हत्ता] अरिहननात् रजोहननात् रहस्याभावाच्च अर्हन् । पृषोदरादित्वात् अर्हन्निपात्यते । यद्वा चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजा अर्हतीति अर्हन् । 'शत्रानशावेष्यति०' (१।२।२०) शतृप्र० → अत् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । अर्हतो भावः कर्म वा = आर्हन्त्यम् । अनेन ट्यणप्र० → य - त् → "न्त्"देशश्च । अर्हन्त्य मण्ड्य ते । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । अग्रेतने 'प्राक्त्वादगडुलादेः' (७।१।५६) त्वतल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।। सहायाद् वा ॥ ७।१।६२ ॥ [सहायात्] सहाय पञ्चमी ङसि । [वा] वा प्रथमा सि । [ साहाय्यम्, साहायकम्, सहायत्वम्, सहायता] सहायस्य भावः कर्म वा = साहाय्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-साहायकम् । 'योपान्त्याद् गुरूक्षेत्तमादसुप्रख्यादकञ्' (७।१।७२) अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-सहायत्वम्, सहायता । 'प्राक्त्वादगडुलादेः' (७।१।५६) त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy