________________
सप्तमाध्यायस्य प्रथमः पादः ॥
पतिराजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च ॥ ७।१।६० ॥ [पतिराजान्तगुणाङ्गराजादिभ्यः] पतिश्च राजा च = पतिराजानौ । पतिराजानावन्ते येषां ते = पतिराजान्ताः । गुणो अङ्गं येषां ते = गुणाङ्गाः । राज आदिर्येषां ते = राजादयः । पतिराजान्ताश्च गुणाङ्गाश्च राजादयश्च = पतिराजान्तगुणाङ्गराजादयः, तेभ्यः ।
[कर्मणि] कर्मन् सप्तमी ङि । [च] च प्रथमा सि ।
[आधिपत्यम्, अधिपतित्वम्, अधिपतिता] अधिकः पतिः = अधिपतिः, तस्य भावः कर्म वा = आधिपत्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम्अधिपतित्वम्, अधिपतिता । प्राक्त्वादित्यधिकारात् अनेनैव त्व-तल्प्र० ।
[नारपत्यम् ] नराणां पतिः = नरपतिः । नरपतेर्भावः = नारपत्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[बार्हस्पत्यम् ] बृहस्पतेर्भावः कर्म वा = बार्हस्पत्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । __ [प्राजापत्यम् ] प्रजापतेर्भावः कर्म वा = प्राजापत्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[सैनापत्यम् ] सेनापतेर्भावः कर्म वा = सैनापत्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । - [आधिराज्यम्, अधिराजत्वम्, अधिराजता] अधिको राजा = अधिराजः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । अधिराजस्य भावः = आधिराज्यम् । अनेन ट्यणप्र० , य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक । अग्रेतनेऽपि अनेनैव त्वतल्प्र० ।
[सौराज्यम् ] सु-राजन् । शोभनो राजा = सुराजा । 'पूजास्वतेः प्राक् टात्' (७।३।७२) समासान्ताभावः । तस्य भावः = सौराज्यम् । ___ [यौवराज्यम् ] युवराजस्य भावः = यौवराज्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'नोऽपदस्य तद्धिते' (७४/६८) अन्लुक् ।
द्रव्याश्रयो गुणः । गुणोऽङ्ग निमित्तं येषां प्रवृत्तौ ते गुणाङ्गाः, गुणद्वारेण ये गुणिनि वर्तन्ते न तु गुणवचना एव (ते गुणाङ्गा उच्यन्ते)।
[मौढ्यम्, मूढत्वम्, मूढता] मूढस्य भावः कर्म वा = मौढ्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । अग्रेतनेऽपि अनेनैव त्व-तत्प्र० ।
न हि मूढो गुणोऽपि भण्यते, किन्तु मोहगुणद्वारेण गुणिन्येव वर्तते । अतो गुणोऽङ्गं प्रवृत्तिनिमित्तमस्यापि विद्यते इति गुणाङ्गः, न तु गुणवचनः । गुणवचना हि पूर्वं गुणे वर्तित्वा पश्चाद् गुणिनि वर्तन्ते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org