SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [अयौवराज्यम्] युवन् । राजन् । युवा चासौ राजा च = युवराजः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । युवराजस्य भावः = यौवराज्यम् । 'पतिराजान्त०' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (।४।६८) अलुक् । न यौवराज्यम् = अयौवराज्यम् । 'नत्रत्' (३।२।१२५) न० → अ । [अमूर्खत्वम्, अमूर्खता] न मूर्खः = अमूर्खः । अमूर्खस्य भावः = अमूर्खत्वम्, अमूर्खता । अनेन त्व-तलप्र० । अत्र गुणाङ्गलक्षणट्यण्बाधया । [अमौर्य्यम् ] मूर्खस्य भावः = मौर्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक । न मौय॑म् = अमौर्य्यम् । [अजाड्यम् ] जडस्य भावः = जाड्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । न जाड्यम् = अजाड्यम् । [अस्थविरत्वम्, अस्थविरता] न स्थविरः = अस्थविरः । अस्थविरस्य भावः = अस्थविरत्वम्, अस्थविरता । अनेन त्व-तलप्र० → त । ___अत्र वयोवचनलक्षण: 'प्राणिजाति-वयोऽर्थादज्' (७११६६) अब्बाधया [अस्थाविरम् ] स्थविरस्य भावः कर्म वा = स्थाविरम् । 'युवादेरण' (७।१।६७) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । न स्थाविरम् = अस्थाविरम् । 'नत्रत्' (३।२।१२५) न० → अ० । सि-अम् । [अकैशोरम् ] किशोरस्य भावः कर्म वा = कैशोरम् । 'प्राणिजाति-वयोऽर्थाद' (७।१।६६) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । न कैशोरम् = अकैशोरम् । 'नउत्' (३।२।१२५) न० → अ० । सि-अम् । [अहायनत्वम्, अहायनता] न हायनः = अहायनः । अहायनस्य भावः = अहायनत्वम्, अहायनता । अनेन त्वतल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । [अद्वैहायनम्] द्वे हायने यस्य सः = द्विहायनः, तस्य भावः = द्वैहायनम् । 'हायनान्तात्' (७।१।६८) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । न द्वैहायनम् = अद्वैहायनम् । [अत्रैहायनम् ] त्रीणि हायनानि यस्य गृहस्य = विहायनः, तस्य भावः कर्म वा = त्रैहायनम् । 'हायनान्तात्' (७१।६८) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । न त्रैहायनम् = अत्रैहायनम् । अत्रावयोऽर्थत्वात् 'चतुस्त्रेयिनस्य वयसि' (२।३।७४) न णत्वम् । __ [अपटुत्वम्, अपटुता] न पटुरपटुः । 'नजत्' (३।२।१२५) न० → अ० । अपटोर्भावः = अपटुत्वम्, अपटुता । अनेन त्व-तल्प्र० → त । [अपाटवम् ] पटोर्भावः कर्म वा = पाटवम् । 'स्ववर्णाल्लघ्वादेः' (७१६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । न पाटवम् = अपाटवम् । [अलाघवम्] लघोर्भावः कर्म वा = लाघवम् । 'खुवर्णाल्लघ्वादेः' (७११६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । न लाघवम् = अलाघवम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy