________________
२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[त्वात् ] त्व पञ्चमी ङसि ।
[अगडुलादेः ] गडुल आदिर्यस्य सः = गडुलादिः । न गडुलादिः = अगडुलादिः, तस्मात् = अगडुलादेः । 'नजत्' (३।२।१२५) न० → अ० ।
[गाडुल्यम्] गडुलस्य भावः कर्म वा = गाडुल्यम् । 'पतिराजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) । ट्यणप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[कामण्डलवम् ] कमण्डलो वः कर्म वा = कामण्डलवम् । 'य्ववर्णाल्लघ्वादेः' (७१२६९) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् ।
[गडुलत्वम्, गडुलता] गडुरस्यास्ति = गडुलः । 'सिध्मादि-क्षुद्रजन्तु-रुग्भ्यः' (७।२।२१) लप्र० । गडुलस्य भावः । मतान्तरे अनेन त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
नञ्तत्पुरुषादबुधादेः ॥ ७१५७ ॥ [नञ्तत्पुरुषात् ] अनञ् चासौ तत्पुरुषश्च = नञ्तत्पुरुषस्तस्मात् । [अबुधादेः ] बुध आदिर्यस्य सः = बुधादिः । न बुधादिः = अबुधादिस्तस्मात् ।
[अशुक्लत्वम्, अशुक्लता] न शुक्लोऽशुक्लः, तस्य भावः = अशुक्लत्वम्, अशुक्लता । अनेन त्व-तल्प्र० → . त । 'आत्' (२।४।१८) आप्प्र० → आ ।
[अशौक्ल्यम् ] शुक्लस्य भावः = शौक्ल्यम् । 'वर्णदृढादिभ्यष्ट्यण् च वा' (७।१५९) ट्यणप्र० → य । वृद्धिः औ । न शौक्ल्यम् = अशौक्ल्यम् । सि-अम् ।
[अकार्यम् ] कृष्णस्य भावः कर्म वा = कार्यम् । 'वर्णदृढादिभ्यष्ट्यण च वा' (७१५९) ट्यणप्र० → य । वृद्धिः आर् । न कार्यम् = अकार्यम् । सि-अम् ।
[अपतित्वम्, अपतिता] न पतिः = अपतिः । अपतेर्भावः कर्म वा = अपतित्वम्, अपतिता । 'पतिराजान्तगुणाङ्ग०' (७१।६०) इत्यस्य बाधया अनेन विहितः भावे त्व-तलप्र० → त । 'आत्' (२।४।१८) आप्त० → आ ।
[अनाधिपत्यम् ] स्वामीभूतः पतिः अधिकः पतिरिति वा अस्यासौ अधिपतिः । अधिपतेर्भावः = आधिपत्यम् । 'पतिराजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७१०६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । न आधिपत्यम् = अनाधिपत्यम् । अम् ।
[अगाणपत्यम् ] गणपतेर्भावः = गाणपत्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । न गाणपत्यम् = अगाणपत्यम् । अम् ।
[अराजत्वम्, अराजता] न राजा = अराजा । 'नजत्' (३३२११२५) न० → अ० । 'नञ्तत्पुरुषात्' (७।३।७१) समासान्ताभावः । अराज्ञो भावः = अराजत्वम्, अराजता । अनेन त्व-तलप्र० → त । 'नाम्नो नोऽनह्नः' (२।१२९१) नलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'पतिराजान्त०' (७१।६०) इत्यादिना ट्यण्बाधया प्रत्ययोऽत्र ।
[अनाधिराज्यम्] अधिको राजा = अधिराजः । 'राजन्-सखेः' (७३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । अधिराजस्य भावः = आधिराज्यम् । 'पतिराजान्त०' (११।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । न आधिराज्यम् = अनाधिराज्यम् । 'अन् स्वरे' (३।२।१२९) अन् । फ़ म० वृत्तौ-नपूर्वस्तत्पुरुषः = नञ्तत्पुरुषः ।
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only