________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[मानुषत्वम् ] मनु । मनोरपत्यं = मानुषः । 'मनोर्याऽणौ षश्चान्तः' (६।१।९४) अण्प्र० → अ - षश्च । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः । मानुषस्यापत्यं (भावः) = मानुषत्वम् ।
[ क्षत्रियत्वम् ] क्षत्रस्यापत्यं = क्षत्रियः । 'क्षत्रादियः' (६।१।९३) इयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । क्षत्रियस्य भावः = क्षत्रियत्वम् ।
[राजन्यत्वम् ] राजन् । राज्ञोऽपत्यं = राजन्यः । 'जातौ राज्ञः' (६।१।९२) यप्र० । 'अनोऽट्ये-ये' (७।४।५१) न अनो लुप् । राजन्यस्य भावः = राजन्यत्वम् । अनेन त्वप्र० । सि-अम् ।
[गर्गत्वम् ] गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गगादेर्यज्' (६।१।४२) यप्र० । 'यज्ञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) यञ्लुप् । गर्गाणां भावः = गर्गत्वम् । अनेन त्वप्र० । सि-अम् ।
[पञ्चालत्वम् ] पञ्चालानां जनपदानां राजानः - पञ्चालस्य राज्ञोऽपत्यानि = पञ्चालाः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिर' (६।१।११४) अप्र० । 'द्ररत्रणोऽप्राच्य-भर्गादेः' (६११२३) अब्लुप् । पञ्चालानां भावः = पञ्चालत्वम् । अनेन त्वप्र० । सि-अम् ।
__ अन्यस्तु, प्रत्ययरहितः पञ्चालश्च पञ्चालश्चेति कृते 'स्यादावसंख्येयः' (३।१।११९) एकशेषः । तेषां भावः = पञ्चालत्वम् । अनेन त्वप्र० ।
[अक्षत्वम् ] अक्षशब्देन इन्द्रियपाशबिभीतकादीन्युच्यन्ते । अक्षश्च ३ = अक्षाः । अक्षाणां भावः = अक्षत्वम् । अनेन त्वप्र० ।
[पादत्वम् ] पादशब्देन चरणकिरणश्लोकचतुर्थांशप्रत्यन्तपर्वताः उच्यन्ते । पादश्च ३ = पादाः । पादानां भावः = पादत्वम् । अनेन त्वप्र० ।
[माषत्वम् ] माषशब्देन उडददशार्द्धगुञ्जवृक्षविशेषा उच्यन्ते । माषश्च ३ = माषाः । माषाणां भावः = माषत्वम् । अनेन त्वप्र० ।
[सत्त्वम्, सत्ता] सत् । सतो भावः = सत्त्वम्, सत्ता । अनेन त्व-तल्प्र० → त । [विद्यमानत्वम्, विद्यमानता] विद्यमानस्य भावः = विद्यमानत्वम्, विद्यमानता । अनेन त्व-तत्प्र० → त ।
[स्त्रीत्वम्, स्त्रीता] स्त्रीणां भावः = स्त्रीत्वम्, स्त्रीता । अनेन त्व-तल्प्र० → त० । 'आत्' (२।४।१८) आप्प्र० → आ ।
[स्त्रैणम् ] स्त्रिया भावः = स्त्रैणम् । 'त्वे वा' (६।१।२६) नप्र० → न । वृद्धिः ऐ ।
[पुंस्त्वम्, पुंस्ता] पुंसो भावः = पुंस्त्वम्, पुंस्ता । अनेन त्व-तत्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः ।
[पौस्नम् ] पुंसो भावः = पौंस्नम् । 'त्वे वा' (६।१।२६) स्नप्र० → स्न । वृद्धिः औ । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । यत उक्तं लिङ्गानुशासने त्वान्तं च "आ त्वात् त्वादिरि"ति नपुंसकत्वम् । (श्लोकाङ्कः ॥९॥) ॥छ।।
प्राक् त्वादगडुलादेः ॥ ७।१।५६ ॥ [प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org