________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[दण्डित्वम् ] दण्डो विद्यते यस्य सः = दण्डी । 'अतोऽनेकस्वरात्' (७२६ ) इन्प्र० । दण्डिनो भावः = दण्डित्वम् । अनेन त्वप्र० । सि-अम् ।
२४
[विषाणित्वम् ] विषाणमस्यास्ति
विषाणी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । विषाणिनो भावः = विषाणित्वम् । अनेन त्वप्र० । सि-अम् । अत्रोपगुदण्डादिसम्बन्धः ।
=
[डित्थत्वम् ] डित्थस्य भावः स्वरूपं = डित्थत्वम् । अनेन त्वप्र० । सि-अम् ।
[डवित्थत्वम् ] डवित्थस्य भावः स्वरूपं = वित्त्वम् । द(ड) वित्थ इत्यपि । अनेन त्वप्र० । सि-अम् ।
[ गोत्वम्, गोता ] गोजातेर्भावः = गोत्वम्, गोता । गोजातिरित्यर्थः । ननु गोशब्देन कथं गोजातिरुच्यते ? सत्यम्, उपचारात् या गोजातिः स एव गोशब्द इति गोशब्दस्य स्वरूपम् ।
शुक्लत्वम्, शुक्लता । अनेन त्व- तल्प्र० । शुक्लशब्दस्य स्वरूपं
[ शुक्लत्वम्, शुक्लता ] शुक्लजातेर्भावः शुक्ल जातेरित्यर्थः ।
=
[ देवदत्तत्वम् ] देवदत्तस्य भावः = देवदत्तत्वम् । अनेन त्वप्र० ।
[ चन्द्रत्वम् ] चन्द्रस्य भावः = चन्द्रत्वम् । अनेन त्वप्र० ।
[ सूर्यत्वम् ] सूर्यस्य भावः = सूर्यत्वम् । अनेन त्वप्र० ।
[ दिक्त्वम् ] दिश् । दिशो भावः = दिक्त्वम् । अनेन त्वप्र० । 'ऋत्विज् दिश् - दृश्-स्पृश् - स्रज् - दधृषुष्णिहो गः ' (२|१|६९) श०ग० । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) ग०
क० ।
[ आकाशत्वम् ] आकाशस्य भावः = आकाशत्वम् । अनेन त्वप्र० ।
[ अभावत्वम् ] अभावस्य भावः = अभावत्वम् । अनेन त्वप्र० । निषेधात्मकं भावस्वरूपं भावो ज्ञेयः ।
अन्ये तु डित्थत्वम्, देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम् । चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम् ।
[ गौरखरत्वम् ] गौरश्चासौ खरश्च = गौरखरः, तस्य भावः = गौरखरत्वम् ।
[ लोहितशालित्वम् ] लोहितश्चासौ गो (शा) लिश्च । लोहितस्य घटिका प्रहरः I . एककल-द्विककलद्विकलराहुग्रस्ताभ्रछ्न्नत्वादयो विशेषाः ।
[ सप्तपर्णत्वम् ] सप्त पर्णान्यस्य = सप्तपर्णः, तस्य भावः ।
[कुम्भकारत्वम् ] कुम्भं करोतीति कुम्भकारः । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'नामिनोऽकलि-हले ः ' (४/३/५१) वृद्धि: आर् । कुम्भकारस्य भावः = कुम्भकारत्वम् ।
[ तन्तुवायत्वम् ] तन्तुवायस्य भावः = तन्तुवायत्वम् ।
[ स्तम्बेरमत्वम् ] स्तम्बे रमते = स्तम्बेरमः । ' शोकापनुद - तुन्दपरिमृज-स्तम्बेरम - कर्णेजपं प्रिया - ऽलस - हस्तिसूचके' (५/१/१४३) कप्र० अ, तस्य भावः = स्तम्बेरमत्वम् ।
Jain Education International
[ पङ्कजत्वम् ] पङ्कजस्य भावः = पङ्कजत्वम् । [ हस्तित्वम् ] हस्त: - करो विद्यते यस्य सः हस्ती । 'अतोऽनेकस्वरात्' (७२६) (हस्त - दन्त-कराज्जातौ ' (७२।६८) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । हस्तिनो भावः = हस्तित्वम् ।
=
For Personal & Private Use Only
www.jainelibrary.org