________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[ अणुत्वम् ] अणु । अणोः - अणुनो वा द्रव्यस्य भावः = अणुत्वम् । अनेन त्वप्र० । सि-अम् ।
[ महत्त्वम् ] महतो द्रव्यस्य भावः = महत्त्वम् । अनेन त्वप्र० । सि-अम् । अत्र परिमाणलक्षणो गुणः ।
[ एकत्वम् ] एकस्य द्रव्यस्य भावः = एकत्वम् । अनेन त्वप्र० ।
[द्वित्वम् ] द्वयोर्द्रव्ययोर्भावः
=
-
[ पृथक्त्वम् ] पृथक्भूतस्य भावः = पृथक्त्वम् । अनेन त्वप्र० ।
[ नानात्वम् ] नानाभूतस्य भावः = नानात्वम् । अनेन त्वप्र० । अत्र भेदलक्षणः ।
[ उच्चैस्त्वम् ] उच्चैर्भूतस्य भावः = उच्चैस्त्वम् । अनेन त्वप्र० ।
[ नीचैस्त्वम् ] नीचैर्भूतस्य भावः नीचैस्त्वम् । अनेन त्वप्र० । अत्र उच्छ्रयादिलक्षणः । वृत्तौ पृथगादिशब्दाः पृथभूताद्यर्थे सत्त्वे द्रव्ये वर्त्तन्ते इति प्रत्ययः ।
[ पटुत्वम् ] पटोर्भावः = पटुत्वम् । अनेन त्वप्र० ।
[ मृदुत्वम् ] मृदोर्भावः
मृदुत्वम् । अनेन त्वप्र० ।
[ तीक्ष्णत्वम् ] तीक्ष्णस्य भावः = तीक्ष्णत्वम् । अनेन त्वप्र० । इत्यादिष्वपि गुणो भावः ।
समासात्सम्बन्धे
-
=
द्वित्वम् । अनेन त्वप्र० । अत्र सङ्ख्यालक्षण: ।
=
[ राजपुरुषत्वम् ] राज्ञः पुरुषः
= राजपुरुषः । राजपुरुषस्य भावः = राजपुरुषत्वम् । अनेन त्वप्र० । [चित्रगुत्वम् ] चित्रा गौर्यस्य सः = चित्रगुः । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२|४|९६ ) ह्रस्वः । चित्रगोर्भावः चित्रत्वम् । अनेन त्वप्र० । अत्र स्वस्वामिसम्बन्धः ।
कृत: सम्बन्धे - [ पाचकत्वम् ] 'डुपचींष् पाके' (८९२) पच् । पचतीति पाचक: । 'णक - तृचौ' (५/१/४८) णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'च-जः क- गम्' (२२११८६) च० क० । पाचकस्य भावः = पाचकत्वम् । अनेन त्वप्र० ।
Jain Education International
२३
[ पक्तृत्वम् ] 'डुपचींष् पाके' (८९२) पच् । पचतीति पक्ता । 'णक - तृचौ' (५।१।४८) तृच्प्र० -> तृ । 'च-ज: क- गम्' (२|१|८६) च० क० । पक्तुर्भावः = पक्तृत्वम् । अनेन त्वप्र० ।
[ कार्यत्वम् ] 'डुकृंग् करणे' (८८८) कृ । क्रियत इति कार्यम् । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र० → य। 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । कार्यस्य भावः = कार्यत्वम् । अनेन त्वप्र० ।
[ साधनत्वम् ] राधं (१३०४) - 'साधंट् संसिद्धौ' (१३०५) साध् । साध्यते = साधनम् । अनट्प्र० अन । साधनस्य भावः = साधनत्वम् । अनेन त्वप्र० । अत्र क्रियाकारकसम्बन्धः । पचनक्रिया तत् कर्त्रीः सम्बन्धः
समवायः ।
तद्धितात्सम्बन्धे - [ औपगवत्वम् ] गोः समीपम् = उपगु । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये ' ( ६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७|४७०) अव् । औपगवस्य भावः = औपगवत्वम् । अनेन त्वप्र० । सि-अम् ।
For Personal & Private Use Only
www.jainelibrary.org