________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[सेनानिभोगीनः] सेना 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२२३९७) नी । सेनां नयतीति सेनानी(:) । 'क्विप्' (५।१।१४८) क्विप्र० । 'अप्रयोगीत्' (१।११३७) क्विप्लुक् । सेनान्यो भोगः = सेनानिभोगः । 'वेदूतोऽनव्यय०' (२।४।९८) इत्यादिना हस्वः । सेनानिभोगाय हितः = सेनानिभोगीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र क्षुभ्नादित्वान्न णत्वम् ।
[आचार्यभोगीनः] आचार्यस्य भोगः = आचार्यभोगः । आचार्यभोगाय हितः = आचार्यभोगीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अत्र क्षुभ्नादित्वान्न णत्वम् ।
[आत्मनीनः] आत्मन् । आत्मने हितः = आत्मनीन: । अनेन ईनप्र० । 'ईनेऽध्वा-ऽऽत्मनोः' (७।४।४८) इत्यन्त्यस्वरादिलोपाभावः ।।
[अनात्मनीनः ] आत्मने न हित: = अनात्मनीनः । अनेन ईनप्र० । 'अन् स्वरे' (३।२।१२९) अन् । 'ईनेऽध्वाऽऽत्मनः' (७४।४८) इत्यन्त्यस्वरादिलोपाभावः ॥छ।।
पञ्च-सर्व-विश्वाज्जनात् कर्मधारये ॥ ७।१।४१ ॥ [पञ्चसर्वविश्वात् ] पञ्च च सर्वश्च विश्वश्च = पञ्चसर्वविश्वम्, तस्मात् । [जनात् ] जन पञ्चमी उसि । [कर्मधारये] कर्मधारय सप्तमी ङि ।
[पञ्चजनीनः ] पञ्चन्-जन । पञ्च च ते जनाश्च = पञ्चजनाः । पञ्चजनेभ्यः पञ्चजनाय वा हितः = पञ्चजनीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । रथकारपञ्चमस्य चातुर्वर्णस्य पञ्चजन इति संज्ञा ।
[सर्वजनीनः ] सर्वे च ते जनाश्च = सर्वजनाः । सर्वजनेभ्यो हितः = सर्वजनीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[विश्वजनीनः ] विश्वे च ते जनाश्च = विश्वजनाः । विश्वजनेभ्यो हितः = विश्वजनीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[पञ्चजनीयः] पञ्चानां जनः = पञ्चजनः, तस्मै हितः = पञ्चजनीयः । 'तस्मै हिते' (७।१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सर्वजनीयः] सर्वो जनोऽस्य-सर्वेषां वा जनः = सर्वजनस्तस्मै हितः = सर्वजनीयः । 'तस्मै हिते' (७।१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[विश्वजनीयः] विश्वं जनोऽस्य-विश्वेषां वा जनः = विश्वजनस्तस्मै हितः = विश्वजनीयः । 'तस्मै हिते' (७१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
__ महत्-सर्वादिकण् ॥ ७।१।४२ ॥
[महत्सर्वात् ] महांश्च सर्वश्च = महत्सर्वम्, तस्मात् ।
[इकण्] इकण् प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org