SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [माहाजनिकः] महत्-जन । महते जनाय हितः = माहाजनिकः । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'जातीयैकार्थेऽच्चे:' (३।२७०) डाप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अत्लुक् । [सार्वजनिकः] सवस्मै जनाय हितः = सार्वजनिकः । एवं सर्वजनात्पूर्वेण ईनः अनेनेकणिति द्वैरूप्यम् [महाजनीयः] महान् जनोऽस्य = महाजनस्तस्मै हितः = महाजनीयः । 'तस्मै हिते' (७१।३५) ईयप्र० । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डाप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । [सर्वजनीयम् ] सर्वेषां जनाय हितं = सर्वजनीयम् । 'तस्मै हिते' (७१२३५) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।। सर्वाण्णो वा ॥ ७१।४३ ॥ [सर्वात् ] सर्व पञ्चमी ङसि । [णः] ण प्रथमा सि । [वा] वा प्रथमा सि । जनात्कर्मधारय इति च निवृत्तम् । [सार्वः, सर्वीयः ] सर्वस्मै हितः = सार्वः । अनेन णप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-सर्वीयः । 'तस्मै हिते' (७।१।३५) ईयप्र० ॥छ।। परिणामिनि तदर्थे ॥ ७॥१॥४४॥ [परिणामिनि] परिणामोऽस्यास्तीति परिणामी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक्, तस्मिन् । [तदर्थे ] तस्मै इदं = तदर्थम्, तस्मिन् । हिते इति निवृत्तम् । अङ्गारादीनां भवनं तद्भावः-परिणामः, सोऽस्यास्ति । परिणामिद्रव्यमुच्यते । [अङ्गारीयाणि काष्ठानि] अङ्गारेभ्य इमानि = अङ्गारीयाणि काष्ठानि । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । “र-वर्णान्नो ण०' (२।३।६३) न० → ण । अङ्गारार्थानीत्यर्थः । [प्राकारीया इष्टकाः ] प्र(प्रा)काराय इमे = प्राकारीया इष्टकाः । अनेन ईयप्र० । जस् । [शङ्कव्यं दारु ] शङ्कु । शङ्कवे इदं = शङ्कव्यम् । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । दारु । [पिचव्यः कर्यासः] पिचु । पिचु(च)वेऽयं = पिचव्यः कर्पासः । 'उवर्ण-युगादेर्यः' (७१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy