SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३७१ [गाायणः] गार्ग्य पूर्ववत् । गाय॑स्यापत्यं = गाायणः । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अग्रेतने न भवति[परमगार्ग्यस्यापत्यम् ] परमश्चासौ गार्ग्यश्च = परमगार्ग्यः, परमगार्ग्यस्यापत्यम् । [पुत्रकाम्यति ] पुत्रमिच्छति । द्वितीयायाः काम्यः' (३।४।२२) काम्यप्र० । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अधिकान्न भवति "महान्तं पुत्रमिच्छति" । न्यूनाधिकस्य व्यवच्छेदार्थं वचनम् ॥छ। गौणो ङ्यादिः ॥ ७।४।११६ ॥ [गौणः] गुणादागतः = गौणः । 'तत आगते' (६।३।१४९) अणप्र० । गुण एव = गौणः । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।११७२) स० → र० । [ड्यादिः ] ङीरादिर्यस्य सः = ङ्यादिः । डीमारभ्य व्यं यावत् ङ्यादिः प्रत्ययः । - [अतिकारीषगन्ध्यबन्धः] करीषस्येव गन्धो यस्य सः = करीषगन्धिः । 'वोपमानात्' (७३।१४७) इत्० → इ० । करीषगन्धस्यापत्यं = कारीषगन्धि(:) । 'अत इज्' (६१।३१) इप्र० →इ। करका)रीषगन्धेरपत्यं = कारीषगन्ध्यः । 'ङसोऽपत्ये' (६।१२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अनार्षे वृद्धेऽणिजो बहुस्वरगुरूपान्त्यस्या-ऽन्तस्य ष्यः' (२।४।७८) अण्-इजो वा स्थाने ष्यः-षकारोऽनुबन्धार्थः । 'आत्' (२।४।१८) आप्प्र० → आ । कारीषगन्ध्यमतिक्रान्तः सोऽतिकारीषगन्ध्यः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । अतिकारीषगन्ध्यो बन्धुरस्य = अतिकारीषगन्ध्यबन्धुः । [अतिकौमुदगन्ध्यबन्धुः] कुमुदवत् गन्धो यस्य सः = कुमुदगन्धिः । कुमुदगन्धस्यापत्यं = कौमुदगन्धिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कौमुदगन्धेरपत्यं = कौमुदगन्ध्यः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अनार्षे वृद्धेऽणिजो०' (२।४।७८) ष्यदेशः । 'आत्' (२।४।१८) आप्प्र० → आ । कौमुदगन्ध्यामतिक्रान्तः = अतिकौमुदगन्ध्यः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'अतिकौमुदगन्ध्यो बन्धुरस्य सः = अतिकौमुदगन्ध्यबन्धुः । अत्र ष्येणाधिकस्याग्रहणात् 'बन्धौ बहुव्रीहौ' (२।४।८४) इति ईच् न भवति । अगौणोऽधिकस्यापि समुदायस्य विशेषणं भवति । [परमकारीषगन्धीबन्धुः] परमश्चासौ (परमा चासौ) कारीषगन्ध्या च = परमकारीषगन्ध्या । परमकारीषगन्ध्या बन्धुरस्य सः = परमकारीष-गन्धीबन्धुः । 'बन्धौ बहुव्रीहौ' (२।४।८४) ष्यस्य स्थाने ईच् । पूर्वेणैव सिद्धेऽगौणस्याधिकपरिग्रहार्थं वचनम् ॥छ।। कृत् सगतिकारकस्यापि ॥ ७।४।११७ ॥ [कृत् ] कृत् प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy