________________
३७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पथः] पथिन् द्वितीया शस् । ‘इन् ङीस्वरे लुक्' (१।४।७९) इन्लुक् । [पथाम् ] पथिन् षष्ठी आम् । 'इन् ङीस्वरे लुक्' (१।४।७९) इन्लुक् । [पथिषु] पथिन् सप्तमी सुप् । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् ।
[नेनिजानि] 'णिजॅकी शौचे च' (११४१) णिज् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निज् । पञ्चमी आनिव् । 'हवः शिति' (४।१।१२) द्विवचनम् । 'निजां शित्येत्' (४।१।५७) ए।
[अनेनिजम्] 'णिजॅकी शौचे च' (११४१) णिज् । 'पाठे धात्वादेो नः' (२।३।९७) निज् । ह्यस्तनी अम्व् । 'हवः शिति' (४।१।१२) द्विवचनम् । 'निजां शित्येत्' (४।१।५७) ए । 'अड् धातोरादि०' (४।४।२९) अट् । 'व्युक्तोपान्त्यस्य शिति स्वरे' (४।३।१४) गुणनिषेधः ।
[नेनेक्ति] 'णिजॅकी शौचे च' (११४१) णिज् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निज् । 'वर्त० तिव्' । 'हवः । शिति' (४।१।१२) द्विवचनम् । 'निजां शित्येत्' (४।१।५७) ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' . (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
[यौति] 'युक् मिश्रणे' (१०८०) यु । वर्तः तिव् । 'उत औविति व्यञ्जनेऽद्वे:' (४।३५९) औ। [रौति ] टुक्षु (१०८४)-'रु शब्दे' (१०८५) रु । वर्तः तिव् । 'उत औविति व्यञ्जनेऽद्वेः' (४।३।५९) औ। .
इह न भवति - [अस्तवीत् ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' (न्या० वक्ष०(१)/सूत्र(२९)) स्तु । ह्यस्तनी दिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत्० → ई० । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातो०' (४।४।२९) अट् ।
[पथा] पथिन् तृतीया टा । ‘इन् ङीस्वरे लुक् (१।४।७९) इन्लुक् ।
[अयौत्] 'युक् मिश्रणे' (१०८०) यु । ह्यस्तनी दिव् । 'उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ । 'अड् धातो०' (४।४।२९) अट् । इत्यादौ व्यपदेशिवद्भावाद्भवति । अन्तत्वापवादो योगः ॥छ।।
- प्रत्ययः प्रकृत्यादेः ॥ ७।४।११५ ॥ [प्रत्ययः] प्रत्यय प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [प्रकृत्यादेः ] प्रकृतिरादिर्यस्य सः = प्रकृत्यादिः, तस्य ।
[मातृभोगीणः ] मातुर्भोगः = मातृभोगः । मातृभोगाय हितः = मातभोगीणः । 'भोगोत्तरपदा-ऽऽत्मभ्यामीनः' (७।१।४०) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[खारपायणः] खरपस्यापत्यं = खारपायणः । 'नडादिभ्य आयनण' (६।१।५३) आयनणप्र० → आयन । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
___ अत्र 'तदन्तं पदम्' (१।१।२०) इति पदसंज्ञा समुदायस्य भवति, न तनस्य भोगीण इत्यादिरूपस्य, तेन एकपदत्वाण्णत्वं सिद्धम्, 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।
[राजपुरुषः] राज्ञः पुरुषः = राजपुरुषः । षष्ठ्ययन्ताच्छे' (३।११७६) इति समासः । अधिकस्य न भवति "ऋद्धस्य राज्ञः पुरुषः" ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org