________________
३६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सरव्युः] सखि । सखायमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य० । 'दीर्घश्च्चि -यङ्-यक्क्येषु च' (४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः' (४।३।८२) अलुक् । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलुक्, तस्य 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । 'खि-ति-रवी-तीय उर्' (१।४।३६) ङस् → "उर्"देशः ॥छ।।
लुप्यय्वृल्लेनत् ॥ ७।४।११२ ॥ [लुपि] लुप् सप्तमी ङि । [अय्वृल्लेनत् ] यवृच्च ल् च एनच्च = यवृल्लेनत् । न य्वल्लेनत् = अय्वृल्लेनत् । प्रथमा सि । [तद्] तद् प्रथमा सि । 'अनतो लुप्' (१।४।५९) लुप् । अत्र स्थानिवद्भावप्रतिषेधात् त्यदाद्यत्वसत्वे न भवतः । .
[गर्गाः] गर्गस्यापत्यानि वृद्धानि । 'गर्गादेर्यज्' (६।१।४२) य० → य० । 'योऽश्यापर्णान्त-गोपवनादेः' . (६।१।१२६) यञ्लुप् । __ [कुवलम् ] कुवल 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । कुवल्याः विकारः फलं = कुवलम् । 'हेमाऽऽदिभ्योऽञ्' (६।२।४५) अप्र० → अ । 'फले' (६।२।५८) लुप् । सि-अम् ।
यदि यजओः स्थानित्वं स्यात् तदा वृद्धिः स्यात्, परं सा न विद्यतेऽत्र । प्लुप्यपि लुबपतास्त्येव तेन
[पञ्चगोणिः ] पञ्चगोणि 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) प्लुप् । 'गोश्चान्ते.' (२।४।९६) हस्वः । प्रथमा सि । 'सो रुः' (२।१।७२) स० २ र० । अत्र वृद्धिर्न भवति । लुपीति वचनात् लुकि सत्यां भवत्येव
[गोमान् ] गोमान् पूर्ववत् ।
[पापक्ति, पापचीति] 'डुपचींष् पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति = पापक्ति, पापचीति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्तः तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् विकल्पेन ई । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वेविद्धि] 'व्यधंच ताडने' (११५७) व्यध् । भृशं पुनः पुनर्वा विध्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'ज्या-व्यधः क्ङिति' (४।१।८१) य्वत् य० → इ० । द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त० तिव् । 'अधश्चतुर्थात् तथोर्धः' (२।११७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[शोशवीति ] 'ट्वोश्वि गति-वृद्ध्योः ' (९९७) श्वि । भृशं पुनः पुनर्वा श्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'वा परोक्षा-यङि' (४।१।९०) वृत् उ० । द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त० तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् ।
[जरीगृहीति] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । भृशं पुनः पुनर्वा गृह्णाति = जरीगृहीति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'ग्रह-व्रस्च-भ्रस्ज-प्रच्छः' (४।१।८४) वृत् । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । द्विः । 'ऋतोऽत्' (४।१।३८) ऋकारस्य अ । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'रि-रौ च लुपि' (४।१।५६) "री"आगमः । वर्त० तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत्० → ई० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org