________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
द्वित्वविधौ [ दध्यत्र ] दधि अत्र । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत्वम् । 'अदीर्घाद् विरामैकव्यञ्जने' (१।३।३२) धकारस्य द्विः । द्वितीय-तुर्ययोः पूर्वी' (४|१|४२) ६० द० ।
३६६
[ मद्ध्वत्र ] मधु अत्र । 'इवर्णादेरस्वे० ' (१।२।२१) वत्वम् । 'अदीर्घाद् ० ' (१।३।३२) धकारस्य द्विः । 'द्वितीय - ' तुर्ययो: पूर्वी' (४|१|४२) ६० द० ।
अत्र यत्व - वत्वयो: स्थानिवद्भावाभावादेकव्यञ्जनलक्षणं धस्य द्वित्वं भवति ।
दीर्घविधौ - [ शामंशामम् ] 'शमू उपशमे' (१२३०) शम् । शाम्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'शमोऽदर्शने ' ( ४।२।२८) ह्रस्वः । शमयन्तं प्रयुङ्क्ते । पुनः णिग् । अभीक्ष्णं शमनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिलुक् । “दीर्घस्तु वा त्रि - णम्परे " दीर्घः । भृशा - ऽऽभीक्ष्ण्या - ऽविच्छेदे द्विः प्राक् तमबादेः' (७|४|७३) द्विर्वचनम् । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् ।
[ अशामि] णिगु युक्त शमि मण्ड्यते । अद्यतनी त । 'भाव - कर्मणो:' ( ३।४।६८) ञिच्-तलोपश्च । " दीर्घस्तु वा त्रि- णम्परे" दीर्घः । 'णेरनिटि' (४।३।८३) णिलुक् प्रथमं ततो दीर्घः । 'अड् धातो ० ' ( ४।४।२९) अट् ।
[ शंशामंशंशामम्, अशंशामि] भृशं पुनः पुनर्वा शाम्यति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) । यप्र० →य। 'सन् - यङश्च' (४|१|३) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । 'मुरतोऽनुनासिकस्य' (४/१/५१) मोऽन्तः । शंशम्यमानं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग् । 'अतः ' ं (४।३।८२). अलुक् । 'योऽशिति' (४।३।८०) यलुक्। अभीक्ष्णं शंशमनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५|४|४८) ख्णम्प्र० अम् । द्वितीये अद्यतनी त । 'भाव - कर्मणोः ' ( ३।४।६८) त्रिच् - तलुक् च । “दीर्घस्तु वा त्रिणम्परे" दीर्घः । 'अड् धातो० ' (४।४।२९) अट् । 'णेरनिटि' (४।३।८३) णिलुक् । प्रथमोदाहरणे 'भृशा - ऽऽभीक्ष्ण्या०' (७|४/७३) द्विर्वचनम् । अत्र णिगन्ताद्यङन्ताच्च णिगि ख्णम्ञिचोः परयोर्णिग् ।
असदधिकारे विहितो विधिरसद्विधिः, तत्र
[यायष्टिः ] 'यजीं देवपूजा - सङ्गतिकरण- दानेषु' (९९१) यज् । भृशं पुनः पुनर्वा यजति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यङ्प्र० → य । 'सन् - यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । यायजिषीष्टेत्याशास्यमानः = यायष्टिः । 'तिक्कृतौ नाम्नि' (५/१/७१) तिप्र० । 'अत:' (४।३।८२) अलुक् । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक्। 'यज- सृज - मृज०' (२२११८७) ज० ष० । 'तवर्गस्य श्चवर्ग०' (१|३|६०) त० → ट० 1
[ पापक्तिः ] 'डुपचष् पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० पापक्तिः । → य । 'सन्-यङश्च' (४|११३) द्वि: । 'आ - गुणावन्यादेः' (४।१।४८) आ । पापच्यते इत्याशास्यमानः = 'तिक्कृतौ नाम्नि' (५/११७१) तिप्र० । 'अतः ' ( ४।३।८२) अलुक् । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक् । 'च-ज: क- गम्' (२२११८६) च० क० । प्रथमा सि । सो रुः' (२।१।७२) स०र० ।
[याष्टिः ] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । यजन्तं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३ | ४|२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । याज्यादित्याशास्यमानः = याष्टिः । 'तिकृतौ नाम्नि' (५/१/७१) तिप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'यज- सृज - मृज० ' (२११८७) ज० ष० । 'तवर्गस्य श्चवर्ग० ' (१|३|६०) त०ट० ।
[ पाक्ति: ] 'डुपचष् पाके' (८९२) पच् । पचन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । पाच्यादित्याशास्यमानः पाक्तिः । ' तिक्कृतौ नाम्नि' (५/१/७१ ) तिप्र० । 'च-जः क- गम्'
(२११८६) च०
क० ।
अत्राल्लोप-णिलोपयोः स्थानिवद्भावप्रतिषेधात् षत्व - कत्वे भवतः ।
Jain Education International
=
For Personal & Private Use Only
www.jainelibrary.org