________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३६५
निमित्तापेक्षयापि प्राविधिरिष्यते तेन
[नयनम् ] नीयते = नयनम् । अनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[लवनम्] लूयते = लवनम् । अनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव' (१।२।२४) अव्, इत्यत्र गुणस्य स्थानिवद्भावप्रतिषेधादयवादेशौ सिद्धौ । स्थानिवद्भावे त्वियुवादेशौ स्याताम् ।
डीविधौ - [बिम्बम् ] बिम्ब 'गौरादिभ्यो मुख्यान्डी:' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । बिम्ब्याः फलं = बिम्बम् । 'हेमाऽऽदिभ्योऽज्' (६।२।४५) अञ् । 'फले' (६।२।५८) लुप् । 'यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) ङीनिवृत्तिः, तस्य परनिमित्तत्वेऽपि स्थानिवद्भावनिषेधात् 'अस्य यां लुक्' (२।४।८६) इत्यकारस्य लुग् न भवति । __ [आमलकम्]. आमलक्याः फलमामलकम् । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० । 'द्विगोरनपत्ये यस्वराऽऽदेर्लुबद्विः' (६।१।२४) मयट्लुप् । __ [पञ्चखारः] पञ्चभिः खारीभिः कृतः = पञ्चखारः । 'कृते' (६।३।१९२) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् ।
[पञ्चेन्द्रः पञ्चाग्निः ] अग्नेर्भार्या = अग्नायी । 'पूतक्रतु-वृषाकप्यग्नि-कुसित-कुसीदादै च' (२।४।६०) ङीप्र०ऐरन्तस्य च । इन्द्रस्य भार्या = इन्द्राणी । 'वरुणेन्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः' (२२४/६२) ङीप्र०-आन् च अन्ते । • 'पञ्चेन्द्राण्योऽग्नाय्यो वा देवताऽस्य = पञ्चेन्द्रः, पञ्चाग्निः । 'देवता' (६।२।१०१) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४)
अण्लुप् । 'ङ्यादेगौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः, तस्य स्थानिवद्भावप्रतिषेधात् तत्सन्नियुक्त आनागम ऐकारादेशश्च
न भवति । • यविधौ - [कण्डूतिः] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू इति सौत्रो धातुः । 'धातोः कण्ड्वादेर्यक्'
(३।४।८) यक्प्र० → य । कण्डूयनं = कण्डूतिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'अतः' (४।३।८२) इत्यनेन अकारस्य लोपः, परिनिमित्तको 'य्वोः प्वय्व्यञ्जने लुक्' (४।४।१२१) इति यलोपे कर्तव्ये न स्थानिवद्भवति ।
[सौरी बलाका] सूर्य । 'सूर्येणैकदिक् = सौरी । 'टस्तुल्यदिशि' (६।३।२१०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् । 'सूर्या-ऽऽगस्त्ययोरीये च' (२।४।८९) यलुक्, अत्रैकोऽण्यकारलोपो द्वितीयो ङ्यो(यां) तयोः स्थानिवत्त्वाद्यकारस्यानन्तरो ङीन भवतीति यलोपो न स्यात्, स्थानिवद्भावः(व)प्रतिषेधात्तु भवति ।
क्विविधौ - [दयूः] 'देवृङ् देवने' (८१७) देव् । 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । देवमानं दीव्यन्तं वा प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । देवयतीति दयूः । 'क्विप्' (५।१।१४८) क्विप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'अनुनासिके च च्छ्-वः शूट' (४।१।१०८) व० → ऊट० → ऊ । 'एदैतोऽयाय्' (१।२।२३) अय् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । ___ [लौः] लव । लवमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । लवयतीति लौः । 'क्विप्' (५।१।१४८) क्विप्र० । 'णेरनिटि' (४।३।८३) णिज्लुक् । 'अनुनासिके०' (४।१।१०८) व० → ऊट० → ऊ । 'ऊटा' (१।२।१३) औ । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
अत्र णिलुक-अल्लचौ क्विविधावूटि कर्त्तव्ये न स्थानिवद्भवतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org