________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३६३
[अद्राष्टाम् ] 'दृशं प्रेक्षणे' (४९५) दृश् । अद्यतनी ताम् । सिच् । 'अः सृजि-दृशोऽकिति' (४।४।१११) अ । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धि: । 'धुड्-हुस्वाल्लु०' (४।३१७०) सिच्लुक् । 'यज-सृज-मृज-राज०' (२।१।८७) श० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
अत्र सिज्लोपो न स्वरादेश इति 'ष-ढोः कस्सि' (२२११६२) इति कत्वे स्थानी न भवति ।
[आगत्य] आगमनं पूर्वम् = आगत्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'यमि-रमि-नमि-गमि०' (४।२।५५) मलुक् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[अभिमत्य] अभिमननं पूर्वम् = अभिमत्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'यमि-रमि-नमि-गमि-हनि-मनि०' (४।२।५५) नलुक् । अत्र पञ्चमे(मो) लोपो हुस्वलक्षणो तकारे स्थानी न भवति ।
[द्विपदिकां ददाति] द्वौ पादौ ददाति = द्विपदिकां ददाति । संख्याऽऽदेः पादादिभ्यो दान-दण्डे चाऽकल् लुक् च' (७।२।१५२) अकल्प्र० → अक - अन्त्योऽकारस्य लुक् । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) “पद्"देशः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्' (२।४।१११) इ । अम् । अत्राल्लुचः परनिमित्तत्वाभावात् स्थानित्वाभावे पंदादेशो भवति ।
[बाभ्रवीयाः] बभ्रोरपत्यं = बाभ्रव्यः । 'मधु-बभ्रोर्ब्राह्मण-कौशिके (६।१।४३) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । 'बाभ्रव्यस्य इमे छात्राः = बाभ्रवीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । अत्र 'तद्धितयस्वरेऽनाति' (२।४।९२) इति यलोपे परविधौ कर्त्तव्येऽवादेशः स्थानी न भवति, अन्यथा व्यञ्जनाभावात् यलोपो न स्यात् ।
[नैधेयः] नि 'डुधांग्क् धारणे च' (११३९) धा । निधानं = निधिः । 'उपसर्गाद् दः किः' (५।३।८७) किप्र० → 'इ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । निधेरपत्यं = नैधेयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक ।
[निधिकः] निधिना तरति = निधिकः । 'नौ-द्विस्वरादिकः' (६४।१०) इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
अत्र 'इडेत्-पुसि०' (४।३।९४) इत्याकारे(र)लोपो द्विस्वरलक्षणे एयणिकं प्रत्ययविधौ परस्मिन् स्थानी न भवति, अन्यथा त्रिस्वरत्वात् प्रत्ययो न स्यात् । - [ऐलुकीयः] इलुकाया अदूरभवं नगरमैलुकम् । 'निवासा-ऽदूरभव इति देशे नाम्नि' (६।२।६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । ऐलुके भवः = ऐलुकीयः । 'क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-हृदोत्तरपदाद् दोः' (६।३।५९) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पारिखीयः] परिखाया अदूरभवं नगरं = पारिखम् । 'निवासा-ऽदूरभव इति देशे नाम्नि' (६।२।६९) अण्प्र० → 'अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । पारिखे भवः = पारिखीयः । 'क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-हृदोत्तरपदाद् दोः' (६।३।५९) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
अत्राण्याकारलोपः परविधौ कखोपान्त्यलक्षणो(णे) ईये स्थानी न भवति । पूर्वस्माद्विधिः प्राग्विधिरित्यप्याश्रीयते, तेन
[अधुक्षन्त] 'दुहीक क्षरणे' (११२७) दुह । अद्यतनी अन्त । 'ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् (३।४।५५) सक् → स । तस्य 'दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः' (४।३।७४) इत्यादिना विकल्पत्वान्न लुक । 'भ्वादेर्दादेर्घः'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org