________________
३६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
अत्र णिलुकः स्थानिवद्भावादुपान्त्यनकारलोपो न भवति ।
[याज्यते ] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० ते । 'क्य: शिति' (३।४।७०) क्यप्र० → य । ‘णेरनिटि' (४।३।८३) णिग्लुक् ।
[वाप्यते] 'डुवपी बीजसन्ताने' (९९५) वप् । वपन्तं प्रयुङ्क्ते । 'प्रयोक्त०' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'णेरनिटि' (४।३।८३) णिग्लुक ।
अत्र वृन्न भवति ।
[निराद्य, समाद्य] निर्-सम् 'अदं भक्षणे' (१०९५) अद् । निरदन्तं समदन्तं च प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । निरादनं पूर्वम् । समादनं पूर्वंम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा। 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'णेरनिटि' (४।३।८३) णिग्लुक । अत्र 'यपि चाऽदो जग्घ्' (४।४।१६) इत्यनेन जग्धादेशो न भवति । __ [घात्यात् ] 'हनंक हिंसा-गत्योः' (११००) हन् । नन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'ज्णिति घात्' (४।३।१००) "घात्"देशः । आशी: क्यात् । 'णेरनिटि' (४।३।८३) णिग्लुक् । अत्र वधादेशो न भवति ।
[निगार्यते, निगाल्यते ] नि 'गृत् निगरणे' (१३३५) गृ । निगिरन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । . . 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर । वर्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । 'णेरनिटि' (४।३।८३) णिग्लुक् । अत्राव्यवहितो णिलोपस्य स्थानित्वेन 'नवा स्वरे' (२।३।१०२) इति पक्षे लत्वम् ।
[चातुरौ] चतुर्णामिमौ = चातुरौ । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । __ [आनडुहौ] अनडुह इमौ = आनडुहौ । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ ।
अत्र औत्वादेशस्य स्थानिवद्भावात् 'वाः शेषे' (१।४।८२) इति वा न भवति ।
[पादे] पाद सप्तमी ङि । अत्र एत्वादेशस्य स्थानिवद्भावात् पद्भावो 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) इत्यादिना पद् न भवति ।
[अवीवदद्रीणां परिवादकेन] वदति वीणा-तां परिवादकः प्रयङक्ते । णिगप्र० । परिवादकं वीणां वादयन्तं देवदत्तः प्रयुङ्क्ते । णिग्प्र० । 'ञ्णिति०' (४।३।५०) उपान्त्यवृद्धिः । अद्यतनी दि → त् । 'णि-श्रि-द्रु-स्रु-कमः कर्त्तरि ङः' (३।४।५८) ङप्र० + अ । 'द्विर्धातः परोक्षा-ॐ प्राक०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेलक' (४।१।४४) अनादिव्यञ्जनलोपः । असमानलोपे सन्वल्लघुनि डे' (४।१।६३) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हुस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् । अत्र णिजात्याश्रयणादुपान्त्यस्य हुस्वो भवति ।
[अक्राष्टाम् ] 'कृषीत् विलेखने' (१३१९) कृष् । अद्यतनी ताम् । 'स्पृश-मृश-कृष-तृप-दृपो वा' (३।४/५४) सिच् । 'स्पृशादि-सृपो वा' (४।४।११२) अ । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः । 'धुड्-हुस्वाल्लुगनिटस्त-थोः' (४।३७०) सिच्लुक् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org