________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३६१
[प्राग्विधौ] प्राचो विधिः = प्राविधिः, तस्मिन् ।
[कथयति ] 'कथण वाक्यप्रतिबन्धे' (१८८०) कथ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच् । 'अतः' (४।३।८२) अलुक् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[अवधीत्] अवधीत् इत्यत्र 'अद्यतन्यां वा त्वात्मने' (४।४।२२) इत्यनेन "वध"देशः ।
अत्राल्लुकः स्थानिवद्भावादुपान्त्यलक्षणा वृद्धिः 'णिति' (४।३।५०)-'व्यञ्जनादेर्वोपान्त्यस्याऽतः' (४।३।४७) इत्याभ्यां न भवति ।
[स्पृहयति] 'स्पृहण ईप्सायाम्' (१९२८) स्पृह । 'चुरादिभ्यो णिच्' (३।४।१७) णिच् । 'अतः' (४।३।८२) अलुक् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[मगयते] 'मंगण(णि) अन्वेषणे' (१९३०) मृग । 'चुरादिभ्यो णिच्' (३।४।१७) णिच् । 'अतः' (४।३।८२) अलुक् । वर्त० ते । 'कर्तर्यन०' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
अत्र लघूपान्त्यलक्षणो गुणो न भवति । . [पादिकः] पादाभ्यां तरति = पादिकः । 'नौ-द्विस्वरादिकः' (६४।१०) इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) इत्यादिना पद्भावो न भवति । . [शातनी ] 'शद्रों शातने' (९६७) शद् । सीदन्तं (शीयमानं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'शदे शात्' ('शदिरगतौ शात्') (४।२।२३) "शात्"देशः । [द्वितीये?] शात्यतेऽनया = शातनी । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । ‘णेरनिटि' (४।३।८३) णिग्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[पातनी] 'पत्लु गतौ' (९६२) पत् । पतन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिग् । 'णिति' (४।३५०) उपान्त्यवृद्धिः । [द्वितीये?] पात्यतेऽनया = पातनी । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
अत्र 'अनोऽस्य' (२।१।१०८) लुग् न भवति ।
[धारणिः] धरणस्यापत्यं = धारणिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।। __[रावणिः ] टुक्षु (१०८४)-'रु शब्दे' (१०८५) रु । रौतीति रवणः । 'नन्द्यादिभ्योऽनः' (५।१५२) अनप्र० । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । रवणस्यापत्यं = रावणिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
अत्र 'नोऽपदस्य तद्धिते' (७४।६१) इत्यन्त्यस्वरादिलोपो न भवति ।
[स्रस्यते] 'स्रंसूङ् स्रंसने' (९५३) संस् । स्रसमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'णेरनिटि' (४।३।८३) णिग्लुक् ।
[ध्वंस्यते ] 'ध्वंसूङ् गतौ च' (९५४) ध्वंस् । ध्वंसमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'णेरनिटि' (४।३।८३) णिग्लुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org