________________
३६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[व्यूढोरस्केन, महोरस्केन] व्यूढं उरो यस्य सः, तेन । महदुरो यस्य सः, तेन । दध्युरः-सपिमधूपानच्छालेः' (७।३।१७२) इत्यादिना कच्समासान्तः → क । 'सो रुः' (२।१।७२) स० → र० । 'प्रत्यये' (२।३।६) रस्य सः, इत्यत्र तु सकारे कृते स्वाश्रयः प्रतिषेधः प्रवर्त्तते ।
अप्रधानवर्णाश्रयो विधिः
[प्रदीव्य ] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव, प्रपूर्व० । प्रदेवनं पूर्व = प्रदीव्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः कत्वो यप्' (३।२।१५४) यप् । 'भ्वादेर्नामिनो दीर्घो र्वोwञ्जने' (२।१।६३) दीर्घः ई।
[प्रसीव्य] 'षिवूच उतौ' (११६४) षिव्, प्रपूर्व० । षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । प्रसेवनं पूर्वं = प्रसीव्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ई।
अत्र स्तादीत्यन्यपदार्थस्याशितः प्राधान्यात् स्तोरप्राधान्यमिति स्थानिवद्भावप्रतिषेधो भवति । स्थानिवर्णाश्रयकार्य- . प्रतिषेधाच्चादेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेशवर्णाश्रयाणि
[सर्वेषाम् ] सर्व षष्ठी आम् । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० → साम्० । 'एद् बहुस्भोसि' (१।४।४) ए। 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । अत्र सामादेशे कृते सकाराश्रयमेत्वं भवति । स्थान्यनुबन्धाश्रयाणि
[प्रभिद्य ] 'भिदंपी विदारणे' (१४७७) भिद्, प्रपूर्व० । प्रभेदनं पूर्वं = प्रभिद्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ।
[निरुध्य] 'रुधूपी आवरणे' (१४७३) रुध्, निपूर्व० । निरोधनं पूर्वं = निरुध्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ।
[प्रणीय] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी, प्रपूर्व० । प्रणयनं पूर्वं = प्रणीय । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'अदुरुपसर्गान्तरो ण-हिनु-मीना-ऽऽनेः' (२।३।७७) णत्वम् । ___ [प्रलूय] 'लूग्श् छेदने' (१५१९) लू, प्रपूर्व० । प्रलवनं पूर्वं = प्रलूय । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ।
अत्र क्त्वो यबादेशे कृते स्थानिवद्भावेन क्ङितीति गुणप्रतिषेधो भवति । अनुबन्धा ह्यसन्त एव गुणाभावादिकं कार्यं कुर्वन्ति ।
[अग्रहीत् ] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । अद्यतनी दि० → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः । 'इट ईति' (४।३७१) सिच्लुक्, इत्योटो दीर्घत्वे स्थानिवद्भावात् 'इट ईति' (४।३।७१) इति सिचो लोपो भवति । वर्णात् परतो विधिरिति समासात् वर्णविधिह्येषः? उच्यते-नायं वर्णविधिः, विशिष्टं ह्येष समुदायवर्णमाश्रयते इटं नाम ॥छ।
स्वरस्य परे प्राग्विधौ ॥ ७।४।११० ॥ [स्वरस्य ] स्वर षष्ठी ङस् । [परे ] पर सप्तमी ङि ।
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org