________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३५९
सिन् कित्त्वात् 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति' (४।२।५५) इत्यादिना नलुक्। 'धुड्-हुस्वाल्लगनिटस्त-थोः' (४।३७०) सिच्लुक् । द्वितीये 'अद्यतन्यां वा त्वात्मने' (४।४।२२) "वध"देशः । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → टत्वम्, इत्यादौ 'आङो यम-हनः स्वेऽङ्गे च' (३।३।८६) इत्यनेन उभयत्राप्यात्मनेपदं भवति, अन्यथा वधिरेव स्यात् ।।
वर्णाश्रयो विधिवर्णविधिरिति समासस्याश्रयणाद्वर्णात् परस्य विधिः १, वर्णे परतो विधिः २, वर्णस्य स्थाने विधिः ३, वर्णेन विधिः ४, अप्रधानवर्णाश्रयो वा विधि ५, रिति सर्वत्रावर्णविधाविति प्रतिषेधो भवति ।
तत्र वर्णात् परस्य विधिः - [द्यौः] यो प्रथमा सि । 'ओत औ' (१।४।७४) औ । 'सो रुः' (२।१।७२) स० → र० ।
[पन्थाः ] पथिन् प्रथमा सि । 'थो न्थ्' (१।४।७८) थ्० → न्थ् । 'पथिन्-मथिनृभुक्षः सौ' (१।४।७६) न० → आ० । 'ए:' (१।४।७७) इ० → आ० । 'समानानां०' (१।२।१) दीर्घः । 'सो रुः' (२।१।७२) स० → र० ।
[सः] तद् प्रथमा सि । 'आद्वेरः' (२।१।४१) द्० → अ । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'त: सौ सः' (२।१।४२) त० → स० । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः सर्वत्र ।
अत्र औत्व-आत्व-त्यदाद्यत्वेषु कृतेषु स्थानिवद्भावात् व्यञ्जनात् परस्य सेर्लोपः 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) इत्यादिना प्राप्नोति स न भवति ।
वर्णे परतो विधिः
[क इष्टः ] किम् प्रथमा सि । 'किमः कस्तसादौ च' (२।१।४०) "क"देशः । 'सो रुः' (२।१।७२) स० → र० । 'रोर्यः' (१।३।२६) य । अग्रे इष्टः । 'स्वरे वा' (१।३।२४) यलुक् । . [स उप्तः ] तद् प्रथमा सि । शेषं पूर्ववत् । 'डुवपी बीजसन्ताने' (९९५) वप् । उप्यते स्म = उप्तः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यजादि-वचेः किति' (४।१।७९) वृत् व० → उ० । अत्र य्वृति कृते 'घोषवति' (१।३।२१) इति रोरुत्वम् । 'एतदश्च व्यञ्जनेऽनग-नसमासे' (१।३।४६) इत्यादिना सेर्लोपश्च न भवति ।
वर्णस्य स्थाने विधिः
[श्रायं हविः] श्रीर्देवताऽस्य = श्रायं हविः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।३) आय् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । हविस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'सो रुः' (२।११७२) स० → र० । अत्रेकारस्य वृद्धौ कृतायां स्थानिवद्भावात् 'अवर्णेवर्णस्य' (७४।६८) इति लोपः प्राप्तो न भवति ।
वर्णेन विधिः
[उरःकेण, उर:पेण, उर .केण, उर पेण] उरस् 'कैं शब्दे' (३६) कै। 'आत् सन्ध्य क्षरस्य' (४।२।१) आ। 'मैं शोषणे' (४७) पै। 'आत् सन्ध्यक्षरस्य' (४।२।१) पा । उर: कायतीति उर:कः, तेन । उरः पायतीति उरःपः, तेन । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । तृतीया टा । 'टा-ङ सोरिन-स्यौ' (१।४।५) "इन"देशः । 'अवर्णस्ये०' (१२२।६) ए । 'कवर्गकस्वरवति' (२।३७६) णत्वम् । अग्रेतने सर्वत्र 'सो रुः' (२।१।७२) स० → र० । 'रः कख-पफयोः ४० क-(पौ' (१।३।५) * - X देशः । अत्र सकारादेशानां विसर्जनीयजिह्वामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधा"दलचटतवर्गशसान्ते" इति णत्वप्रतिषेधो न भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org