________________
३५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[कस्मै ] किम् चतुर्थी ङे । “किम: कस्तसादौ च' (२।१।४०) किम्० "का"देशः । 'सर्वादेः स्मै-स्मातौ' (१।४।७) स्मै ।
[के] किम् प्रथमा जस् । “किम: कस्तसादौ च' (२।१।४०) किम्० → "कादेशः" । 'जस इ.' (१।४।९) इ० । 'अवर्णस्ये०' (१।२।६) ए ।
[] किम् षष्ठी आम् । 'किमः कस्तसादौ च' (२।१।४०) किम्० → "का"देशः । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० → साम् । 'एद् बहुस्भोसि' (१।४।४) ए । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् ।
विभक्त्यादेशो विभक्तिवत् - [वृक्षाय ] वृक्ष चतुर्थी उ । 'डे-ङस्योर्याऽऽतौ' (१।४६) २० → य० । 'अत आः स्यादौ०' (१।४।१) दीर्घः । [प्लक्षाय ] प्लक्ष चतुर्थी डे । 'डे-ङस्योर्याऽऽतौ' (१।४।६) २० → य० । 'अत आः स्यादौ०' (१।४।१) दीर्घः । .
[ राजा] राजन् प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[पचेयम् ] 'डुपचीष् पाके' (८९२) पच् । सप्तमी याम् । 'याम्-युसोरियमियुसौ' (४।२।१२३) "इयम्"देशः । 'कर्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'अवर्णस्ये०' (१।२।६) ए।
[पचेयुः] 'डुपचीष् पाके' (८९२) पच् । सप्तमी युस् । 'याम्-युसोरियमियुसौ' (४।२।१२३) “युस्"देशः । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अवर्णस्ये०' (१।२।६) ए ।
कृदादेशः कृद्वत् -
[प्रकृत्य] 'डुकुंग् करणे' (८८८) कृ, प्रपूर्व० । प्रकरणं पूर्वं = प्रकृत्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
[प्रहृत्य] 'हंग् हरणे' (८८५) हु, प्रपूर्व० । प्रहरणं पूर्वं = प्रहृत्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
अव्ययादेशोऽव्ययवत्
[ प्रस्तुत्य, उपस्तुत्य ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' (न्या०वक्ष०(१)/सूत्र(२९)) स्तु । प्र-उपपूर्व० । प्रस्तवनं पूर्वम् । उपस्तवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । शेषं पूर्ववत् । 'क्त्वा-तुमम्' (१।१३५) इत्यव्ययसंज्ञा । तत्फलं प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
पदादेशः पदवत् - [धर्मो वो रक्षतु] अत्र पदत्वात् 'सो रुः' (२।१७२) रेफत्वम् । [धर्मो नो रक्षतु] अत्र पदत्वात् 'सो रुः' (२।१।७२) रेफत्वम् ।
इवग्रहणं स्वाश्रयार्थम्, अन्यथा स्थानीत्यादेशस्य संज्ञा विज्ञायेत, तेन - [आहत, आवधिष्ट] आयूर्व० 'हनंक् हिंसा-गत्योः' (११००) हन् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४/५३) सिच् । प्रथमे 'हनः सिच्' (४।३।३८) इत्यनेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org