________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३५७
प्रत्ययस्य ॥७।४।१०८ ॥ [प्रत्ययस्य] प्रति 'इंण्क् गतौ' (१०७५) इ । यतः सर्वे 'गत्यर्थो(र्थाः) ज्ञानार्थाः' (न्या०वक्ष०(२)/सूत्र(४४)) इत्युक्तं प्रतीयते ज्ञायते येनार्थः सः = प्रत्ययः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । तस्य-प्रत्ययस्य ।
[ सर्वे] सर्व प्रथमा जस् । 'जस इ:' (१।४।९) जस्० → इ० । 'अवर्णस्ये०' (१।२।६) ए।
[अष्टौ ] अष्टन् जस् । 'अष्ट और्जस्-शसोः' (१।४।५३) जस्० → औ । 'वाष्टन आः स्यादौ' (१।४।५२) न० → आ । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । [कति ] कति प्रथमा जस् । डति-ष्ण: संख्याया लुप्' (१।४।५४) जस्लुप् ।
स्थानीवाऽवर्णविधौ ॥ ७।४।१०९ ॥ [स्थानी] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै०' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या०वक्ष०(१)/ सूत्र(२९)) स्था । स्थीयतेऽस्मिन्निति स्थानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । स्थानं-प्रसङ्गः सोऽस्यास्तीति स्थानी-देशी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
[इव] इव प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [अवर्णविधौ ] वर्णाश्रितो विधिः = वर्णविधिः । न वर्णविधिः = अवर्णविधिः, तस्मिन् । तत्र धातुप्रकृतिविभक्तिकृदव्ययपदादेशा उदाहरणानि । धात्वादेशो धातुवद्भवति ।
[भविता] 'असक् भवे(भुवि)' (११०२) अस् । 'अस्ति-ब्रुवोर्भू-वचावशिति' (४|४|१) अस्० → भूदेशः । भवतीति भविता । ‘णक-तृचौ' (५।१।४८) तृप्र० → तृ । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[भवितुम्] भवनाय = भवितुम् । "क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[भवितव्यम् ] भूयते = भवितव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[वक्ता] 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । 'अस्ति-ब्रुवोभू-वचावशिति' (४।४।१) ब्रू० → “वच्"देशः । • वक्तीति वक्ता । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तु । शेषं स्पष्टम् ।
[वक्तुम् ] वचनाय = वक्तुम् । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वक्तव्यम् ] उच्यते = वक्तव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'च-जः क-गम्' (२२११८६) च० → क० । प्रकृत्यादेशः प्रकृतिवत् । किम: कादेशे कृते सर्वादित्वात् स्मायादयो भवन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org