SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [राजाऽऽचार्यब्राह्मणवृष्णः] राजा च आचार्यश्च ब्राह्मणश्च वृषा च = राजाऽऽचार्यब्राह्मणवृष, तस्मात् । 'अनोऽस्य' (२।१।१०८) वृषन्शब्दसम्बन्धि अलुक् ॥छ।। प्राण्यङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः ॥ ७॥१॥३७॥ [प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषात्] प्राण्यङ्गं च रथश्च खलश्च तिलश्च यवश्च वृषश्च ब्रह्मा च माषश्च = प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषम्, तस्मात् । [यः] य प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [ दन्त्यम् ] दन्त । दन्तेभ्यो हितं = दन्त्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कर्ण्यम् ] कर्णाभ्यां हितं = कर्ण्यम् । अनेन यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [चक्षुष्यम् ] चक्षुर्थ्यां हितं = चक्षुष्यम् । अनेन यप्र० । [कण्ठ्य म् ] कण्ठाय हितं = कण्ठ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [ओष्ठ्यम् ] ओष्ठाय हितम् = ओष्ठ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [नाभ्यम् ] नाभये नाभ्यै वा हितं = नाभ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । [ रथ्या भूमिः ] रथाय हिता = रथ्या भूमिः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । __ [खल्यमग्निरक्षणम् ] खलाय हितं = खल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अग्निरक्षणम् । [तिल्यो वायुः] तिलेभ्यो हितः = तिल्यो वायुः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [यव्यस्तुषारः] यवाय हितः = यव्यस्तुषारः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [वृष्यं क्षीरपाणम् ] वृषाय हितं = वृष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । क्षीरस्य पानं = क्षीरपाणम् । 'पानस्य भावकरणे' (२।३।६९) णत्वम् । [ब्रह्मण्यो देशः ] ब्रह्मणे हितः = ब्रह्मण्यो देशः । अनेन यप्र० । [माष्यो वातः] माषेभ्यो हितः = माष्यो वातः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । सादेश्चेत्यधिकारात् [राजदन्त्यम् ] दन्तानां राजानौ = राजदन्तौ । राजदन्तेभ्यो हितं = राजदन्त्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [शङ्खनाभ्यम् ] शङ्खो नाभिश्च देहांशौ । ततः शङ्खश्च नाभिश्च = शङ्खनाभिम् । 'प्राणि-तूर्याङ्गाणाम्' (३।१।१३७) इति समाहारे, शङ्खनाभये हितं = शङ्खनाभ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [अश्वरथ्या भूमिः ] अश्वानां रथः = अश्वरथः । अश्वरथाय हिता = अश्वरथ्या भूमिः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy